________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे द्भूतरूपयोरव्याप्ति वारयितुं प्रत्यक्षस्य वा पुष्कलां सामग्री वक्तुममिमं ग्रन्थं रचयति-"एवं यत्र"-इत्यादि । घटस्य बाह्यावच्छेदेन बाह्यदेशे । मध्याऽबच्छेदेन मध्यदेशे।
अस्याऽयं स्पष्टोऽर्थः-यदा घटस्य मध्यभागे दीपः स्थाप्येत, घटचतुःसंयोगस्तु घटस्य बाह्यदेशे भवेत् , तदा महत्त्वोद्भूतरूपयोः सतोरपि घटस्य प्रत्यक्षं न भवति; तेनोभयोरन्वयव्यभिचारः । अस्य वारणम् - चतु:संयोगे पालोकावच्छिन्नत्व. विशेषणदानेन भवति । तथाच आलोकसंयोगावच्छिन्नोद्भूतरूपावच्छिन्नमहत्त्वावच्छिन्नचतु:संयोगः घटादिव्यप्रत्यक्षम्प्रति हेतुरिति विशिष्य कार्यकारणभावः।
प्रकृते महत्त्वोद्भूतरूपयोः चतुःसंयोगविशेषणयोः सतोरपि आलोकसंयोगरूपविशेषणाभावात् तादृशघटस्य न प्रत्यक्षम् । एवमेवायं सम्बन्धो रूपादिसाक्षात्कारम्प्रत्यप्यु यः। :
सर्वसारस्तु-चतुरादीन्द्रियं करणम्, चतुरादीन्द्रियसन्निकर्षः संयोगादिव्यापारः, महत्त्वम्, उद्भूतरूपम् , अालोकसंयोगश्चेतित्रयं सहकारिकारणम् । सर्व. मिदम्मिलित्वा प्रत्यक्षस्य पुष्कला सामग्री। यत्रैकमपि न स्यात्, तत्र तस्य प्रत्यक्षं न भवति । तथाच पारमर्ष सूत्रम्-"महत्त्वानेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः ” (वै० ४। १।७) इति । उक्तश्चाक्षुषसन्निकर्षः सम्प्रति स्पार्शनादिप्रत्यक्षेऽपि तं दर्शयति"एवम्"-इत्यादिना । | स्पष्टम् ।।
(मुक्का०) एवं रसप्रत्यक्षे रसनासंयुक्तसमवायः। रससमवेतरासन: प्रत्यक्ष रसनासंयुक्तसमवेतसमवायः कारणम् । शब्दप्रत्यक्ष श्रोत्रावच्छिन्नसमवायः कारणम् । शब्दसमवेतश्रावणप्रत्यक्ष श्रोत्रावच्छिन्नसमवेतसमवायः कारणम् । अत्र सर्वम्प्रत्यक्षं लौकिकम्बोध्यम् । वक्ष्यमाणमलौकिकम्प्रत्यक्षमिन्द्रियसंयोगादिकं विनापि भवति । एवमात्मनः प्रत्यक्ष मनःसंयोगः, आत्मसमवेतमानसप्रत्यक्ष मनःसंयुक्तसमवायः, अात्मसमवेतसमवेतमानसप्रत्यक्ष मनःसंयुक्तसमवेतसमवायः कारणम्।
(प्रभा०) "एवम्" इति । रासनप्रत्यक्षं न संयोगजन्यम्, किन्तु संयुक्तसमवायादिजन्यमिति संयोगं सन्निकर्ष विहायान्यदुक्तम् । अत्र हेतुस्तु चक्षुस्त्वङ्मनांसि त्रीण्येवेन्द्रियाणि द्रव्यग्राहकाणि । “शब्दप्रत्यक्ष” इति । श्रोत्रस्य अाकाशरूपत्वात् शब्दस्य गुणत्वाच्च श्रोत्रावच्छिन्नसमवायः। "शब्दसमवेत"-इति । शब्दत्वं शब्दसमवेता जातिः तत्प्रत्यक्षे इत्यर्थः ।
* विशिष्य चक्षुःसंयोगे आलोकसंयोगावच्छिन्नत्वरूपविशेषणान्तरदाने कृत्वेत्यत्र तात्पर्यम् ।
| व्याख्याप्रकारस्य पूर्ववदवगन्तुं शक्यत्वात् स्पष्टमित्युक्तम् ।