________________
गन्यवृत्तिचाक्षुषप्रत्यक्षसम्बन्धेनाक्षेपपरिहारौ । १६१ घटितचक्षुःसन्निकर्षादपि तदापादयति-"एवं वायौं" इति । वायुघटितचतुःसंयुक्त. समवाये सतीत्यर्थः । “तदीयस्पर्शादौ"-इति । वायवीयस्पर्शादिघटितचक्षुःसंयुक्तसमवेतसमवाये सतीत्यर्थः । श्रादिना तत्समवेतपरिमाणादेः परिग्रहः। .
एतद्दोषपरिजिहीर्षया उत्तरपक्षत्वेनाह-"तस्मात्" इति । उक्ताऽऽपत्तिवारणायेति फलितार्थः । “उद्भूतरूपावच्छिन्न"-इति । उद्भूतरूपावच्छिन्नमहत्त्वावच्छिन्नं स यच्चतु:संयुक्तम्, तत्समवाय: रूपादिगुणसाक्षात्कारे हेतुः । उद्भूतरूपावच्छिन्नमहत्त्वावच्छिन्नचतुःसंयुक्तसमवेतसमवायश्च रूपत्वादिजातिसाक्षात्कारे हेतुवक्तव्य इति तु परमार्थः।
(मुक्का०) इत्थञ्च परमाणुनीलादौ न नीलत्वादिग्रहः । परमाणौ चक्षुःसंयोगस्य महत्त्वावच्छिन्नत्वाभावात् । एवं वाय्वादौ न सत्तादिचाक्षुषम्, तत्र चतुःसंयोगस्य रूपावच्छिन्नत्वाभावात् । एवं यत्र घटस्य मध्यावच्छेदेनालोकसंयोगः चक्षुःसंयोगस्तु बाह्यावच्छेदेन तत्र घटप्रत्यक्षाभावादालोकसंयोगावच्छिन्नत्वञ्चक्षुःसंयोगे विशेषणं देयम् । एवं द्रव्यस्पार्शनप्रत्यक्षे त्वक्संयोगः कारणम्, द्रव्यसमवेतस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवायः, द्रव्यसमवेतसमवेतस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायः कारणम् । अत्रापि महत्त्वावच्छिन्नत्वमुद्भूतस्पर्शावच्छिन्नत्वञ्च पूर्ववदेव बोध्यम् । एवं गन्धप्रत्यक्षे घ्राणसंयुक्तसमवायः। गन्धसमवेतस्य घ्राणजन्यप्रत्यक्षे घ्राणसंयुक्तसमवेतसमवायः कारणम् ।
(प्रभा०) उक्तसम्बन्धस्वरूपविवक्षायाः फलमाह-"इत्थञ्च" इति । महत्त्वोद्भूतरूपादिघटितरूपेण चतुःसन्निकर्षस्य हेतुत्वे चेत्यर्थः । “परमाणुनीलादौ" इति । परमाणुवृत्तिनीलादावित्यर्थः । प्रादिना पीतादिपरिग्रहः परमाणुनीलादिघटितचतु:सन्निकर्षे सतीति तु परमार्थः । "न" इति । नैव नीलत्वादिग्रहः= नीलत्वादिजातिप्रत्यक्षमित्यर्थः । एतदेव हेतूक्त्योपपादयति-"परमाणु"-इति । "महत्त्वावच्छिन्नत्वाभावात्" इति । स्वाश्रयसमवेतसमवेताख्यपरम्परासम्बन्धे विद्यमानेऽपि स सम्बन्ध उद्भूतरूपावच्छिन्नमहत्त्वावच्छिन्नो नास्ति । अर्थात् उक्तसम्बन्धे उद्भूतरूपम्महत्त्वञ्च विशेषणं न वर्तते, तद्विशिष्ट एवचोक्तसम्बन्धः, तथा साक्षात्कारहेतुर्नतु केवलः । एतत्स्वयं स्पष्टीकृतं ग्रन्थका-"परमाणी चतुःसंयोगस्य"-इत्यादिना । “एवं वाय्वादौ"-इति । अन्नादिपदेन भर्जनकपालस्थवयादेः वाय्वादिसमवेतस्पर्शादेश्व ग्रहणम् । तत्र वाय्वादिवृत्तिचन्नुःसंयोगस्य रूपावच्छिन्नत्वाभावात्-उद्भूतरूपाऽनवच्छिन्नत्वादित्यर्थः । स्थलान्तरे महत्त्वो
* "महत्त्वावच्छिन्ना" ---इति । तादृशसम्बन्धेन महत्त्वविशिष्टत्यर्थः । एतस्य चक्षुःसंयुक्तपदार्थैकदेशे चक्षुःसंयोगेऽन्वय इति प्राचीनप्रभायाम्प्राचीनो नृसिंहः ।