________________
१६.
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
कल्पितः, तथाऽत्रापि उद्भूतरूपस्य महत्त्वस्य च * स्वाश्रयसमवेतसमवेतत्वादि. परम्परासम्बन्धेन पृथिवीपरमाणुनीलनिष्ठनीलत्वम्प्रति पृथिवीपरमाणुवृत्तिपृथिवीत्वप्रत्यपिच कारणभाव उन्नेतुं शक्यते । अत्र-"स्व"पदेन उद्भूतरूपस्य महत्परिमाणस्य च ग्रहः, तस्याश्रयः सरेणुः, सच घणुके समवेत इति स्वाश्रयसमवेतं
घणुकम् , तच्च परमाणौ समवेतमित्येवं स्वाश्रयसमवेतसमवेताख्यपरम्परासम्बन्धेन . महत्त्वमुद्भूतरूपन्च परमाणुषु वर्तते इति भवेत्परमाणुग्रहे तवृत्तिनीलादिपरिग्रहोऽपि ।
__ इदमेव प्राप्ता स्वयं विवृणोति-'तथाहि"-इत्यादिना । "नीलत्वआतिरेकैव"-इत्यादि । ग्रन्थस्तु उपरिदर्शितव्याख्यानेनैव गतार्थः । किन्तु "उभय”. मित्यस्य घटनीलम्परमाणुनीलञ्चोभयमित्यर्थो बोध्यः ।।
"एवम्पृथिवीपरमाणी"--इति । पृथिवीपरमाणुघटितचतुःसंयुक्तसमवाये सतीत्यर्थः । घटादिकमादाय-चक्षुःसंयुक्तघटादिकं द्वारीकृत्य । महत्त्वसम्बन्धः महत्परिमाणसम्बन्धः । घटादिघटितस्वसमवायिसममवायसम्बन्धेनेति तु परमार्थः ।
इदमुपलक्षणम्-घटादिकमादाय परमाणुमादाय चोद्भूतरूपसम्बन्धोऽपि बोध्यः । महत्त्वाभावाधिकरणघटितचक्षुःसन्निकर्षाच्चानुषमापाद्य उद्भूतरूपानधिकरण
अत्रेदम्बोध्यम्--स्वम्=महत्त्वमुद्भूतरूपञ्च, तदाश्रयो घटः, तत्र समवेतं नीलम् , तत्र समवेतं नीलत्वम् । तथाच--स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन स्वपदोपात्ते महत्त्वोद्भूतरूपे नीलत्वे वर्तते । एवम्--स्वमुद्भूतरूपम्महत्त्वञ्च तदाश्रयो घटः, तत्र समवेता सत्ता जातिः, साच वायौ वर्तते । तथाच--समवायेन वायुवृत्तिसत्ताजातेश्चाक्षुषप्रत्यक्षं स्यात् , तत्रोद्भूतरूपसम्बन्धस्य महत्त्वसम्बन्धस्य च पूर्वोक्तरीत्या सत्त्वात् । अथच--वायुस्पर्शेऽपि सत्तायाश्चाक्षुषप्रत्यक्षं स्यात् तत्र स्वाश्रयसमवेतसमवायेन घटनीलवृत्तिसत्ताजाते:, वायुस्पर्शवृत्तिसत्ताजातेश्चैवयात्, स्वाश्रयसमवेतसमवायेन तत्र उद्भूतरूपस्यापि सत्त्वात् । महत्त्वसम्बन्धस्तु वायुमहत्त्वमादायैव वायुस्पर्श योध्यः । परमाणुनीलवृत्तिनीलत्वे घटस्य महत्त्वोद्भूतरूपयोः सम्बन्धः स्वाश्रयसमवेतसमवायरूपो बोध्यः नीलत्वजातेश्चक्यात् । एवम्-पृथिवीपरमाणौ पृथिवीत्वप्र.यक्षं स्यात् तत्र महत्त्व सम्बन्धस्तु घटमादाय वर्तते, सच स्वाश्रयसमवायरूपः । उद्भूतरूपसम्बन्धस्तु घटपरमारगुभयमादाय वर्तते, पृथिवीत्वातिरेकैब परमाणौ घटे च वर्तते इत्याक्षेपग्रन्थस्याशयः ।
एतादृशाक्षेपवारणाय चक्षुःसंयुक्ते महत्त्वावच्छिन्नत्वम् , उद्धृतरूपावच्छिन्नत्वञ्च विवक्षितम् । नतु चक्षु:संयुक्तसमवेते, चक्षुःसंयुक्तसमवेतसमवेते वा, येन परमाणुनीलनीलत्वे पृथिवीपरमाणुपृथिवीत्वे वा तयोः स्वाश्रयसमवायेन स्वाश्रयसमवेतसमवायेन वा घटस्य महत्त्वोद्भूतरूपे परमाणुनीलवृत्तिनीलत्वे परमाणुपृथिवीवृत्तिपृथिवीत्वे वा सत्त्वात् प्रत्यक्षत्वप्रसक्तिः स्यात् । उभयत्र परमाणौ चक्षुःसंयोगस्य महत्त्वावच्छिन्नत्वाभावात् न परमाणुनीलवृत्तिनीलत्वस्य परमाणुवृत्ति. पृथिवीत्वस्य वा प्रत्यक्षत्वमिति भावः । नवा-वायुस्पर्शवृत्तिसत्ताया वायुवृत्तिसत्ताया वा चाक्षुषत्वं तत्र वायुचक्षुःसंयोगस्य उद्भूतरूपत्वावच्छिन्नत्वाभावादित्यवधेयम् ।