________________
प्रत्यक्ष सन्निकर्ष(ब्यापार)प्रदर्शनम् । समवेतचाक्षुषप्रत्यक्षे; तादृशचक्षुःसंयुक्तसमवेतसमवायस्य द्रव्यसमवेत. समवेतचाक्षुषे (प्रत्यक्षे) कारणत्वं वाच्यम्।
(प्रभा०) करणलक्षणस्य व्यापारघटितत्वसङ्गमनाय करणमुक्का तब्यापारमाह परममूले– “विषयेन्द्रियसम्बन्ध" इति । एतदेव व्याख्यातुमाह मूले"व्यापार"-इति ।
"द्रव्यप्रत्यक्षम्" इति । घटादिद्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षचतुरादीन्द्रियसंयोगजन्यम् , अर्थात् इन्द्रियसंयोगस्तत्र व्यापारः । “द्रव्यसमवेत"इति । द्रव्यसमवेतानां रूपादीनाम्प्रत्यक्षम्, इन्द्रियसंयुक्तसमवायतः प्रत्यक्षम् । द्रव्य. समवेतवृत्तिलौकिकविषयतासम्बन्धेन रूपादिप्रत्यक्षे संयुक्तसमवायो व्यापार इत्यर्थः ।
"एवमग्रेऽपि" इति । द्रव्यसमवेतसमवेतवृत्तिलौकिकविषयतासम्बन्धेन रूपत्वादीनाम्प्रत्यक्षम्, इन्द्रियसंयुक्तसमवेतसमवायजन्यमित्यर्थः । तत्र इन्द्रियसंयुक्तो घटादिः, तत्र समवेतं रूपादिकम् , तेषु रूपत्वादीनां समवायात् ।
ननु-द्रव्यप्रत्यक्ष इन्द्रियसन्निकर्षस्य कारणत्वञ्चेत् ? तदा त्वक्प्रभासंयोगादपि प्रभायाश्चाक्षुषं स्यात्, एवमन्धकारेऽपि घटचतुःसंयोगात्स्पार्शनापत्तिश्च, प्रत्यक्षहेतो
व्येन्द्रियसंयोगस्य विद्यमानत्वादित्यस्वरसात् सामान्यतः कार्यकारणभावं विहाय विशिष्य कार्यकारणभावं वक्तुमाह-"वस्तुतस्तु"-इति । "द्रव्यचाक्षुषम्प्रति"-इति । घटपटादिद्रव्यीयलौकिकसाक्षात्कारम्प्रतीत्यर्थः । “द्रव्यसमवेत"इति । घटादिद्रव्ये समवायसम्बन्धेन वर्तमानस्य रूपादेरुक्तसाक्षात्कारम्पति । चक्षुःसंयुक्तसमवायः चतुःसंयुक्तो घटादिः, रूपादेस्तन समवायः तस्मादित्यर्थः । “द्रव्यसमवेतसमवेत"-इति । घटादिद्रव्यसमवेतं रूपादिकम् , तत्र समवेतं रूपत्वादिकम्, तस्य च चाक्षुषप्रत्यक्षम्प्रति चतुःसंयुक्तसमवेतसमवायः सन्निकर्षः कारणमित्यर्थः । "एवमन्यत्राऽपि"-इति । एवमेव त्वाचादिप्रत्यक्षम्प्रत्यपि उक्तसन्निकर्षस्य विशिष्य कार्यकारणभावो बोध्यः * ।
शङ्कते-“परन्तु" इति । “पृथिवीपरमाणुनील" इति । पृथिवीनीलपरमाणुषु नीलत्वम्, पृथिवीपरमाणुषु पृथिवीत्वमित्यर्थः । अस्यायमाशयःपरमाणुनीलनिष्ठा या नीलत्वजातिः, तथा पृथिवीपरमाणुनिष्ठा या पृथिवीत्वजातिः, तस्या अपि चाक्षुषः साक्षात्कारः स्यात् ? कुत इति चेत् ? स्वाश्रयसमवेतसमवेतत्वादिसम्बन्धेन । तथाहि-उद्भूतरूपम्महत्त्वञ्च चाक्षुषप्रत्यक्षम्प्रति हेतुरित्यस्ति नियमः । तेन यथा रूपत्वादिजातिसाक्षात्कारे चक्षुःसंयुक्तसमवेतसमवायः परम्परासम्बन्धः
* अर्थात् द्रव्यस्पार्शनम्प्रति त्वक्संयोगःकारणम् । द्रव्यसमवेतस्पार्शनम्प्रति स्वक्संयुक्तसमवायः कारणम् । द्रव्यसमवेतसमवेतचाक्षुषम्प्रति त्वक्संयुक्तसमवेतसमवायः कारणमिति शेयम् ।