________________
१८८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावस्याः
[प्रत्यक्षखण्डे
एवं नव्यानां यो व्यापारः प्राचां मते तत्कारणम् । यच्च नव्यमते करणं प्राचां मते तत्कारणसम्झमिति बोध्यम्।
किच-यत्र श्रोत्रेण शब्दसाक्षात्कारः तत्र नव्यनयानुसारं समवाय एव व्यापारः स्यात् , परन्तत्र ® तजन्यजनकत्वलक्षणं न घटते, समवायस्य नित्यत्वेन श्रोत्रेणाऽजन्यत्वात् । तस्मात्-सर्वत्र षड्विधप्रत्यक्षे इन्द्रियमनःसंयोगस्यैव व्यापारत्वम्बोध्यमिति नव्यमतेऽसङ्गतिः । प्राचां लक्षणादरणे तु नैव दोषः ॥७॥ (का०) विषयेन्द्रियसम्बन्धी व्यापारः सोऽपि षड्विधः ।
द्रव्यग्रहस्तु संयोगात् , संयुक्तसमवायतः ॥५६॥ द्रव्येषु समवेतानां, तथा तत्समवायतः । तत्रापि समवेतानां, शब्दस्य समवायतः ॥६०॥ तवृत्तीनां समवेतसमवायेन तु ग्रहः । प्रत्यक्षं समवायस्य विशेषणतया भवेत् ॥६१॥ विशेषणतया तद्वदभावानां ग्रहो भवेत् ।
यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ॥६२॥ (मुक्का०) व्यापारः सन्निकर्षः । षड्विधं सन्निकर्षमुदाहरणद्वारा . दर्शयति । द्रव्यग्रह इति । द्रव्यप्रत्यक्षमिन्द्रियसंयोगजन्यम् । द्रव्यसमवेतप्रत्यक्षमिन्द्रियसंयुक्तसमवायजन्यम् । एवमग्रेऽपि । वस्तुतस्तु-द्रव्यचाक्षुषम्प्रति चतुःसंयोगः कारणम, द्रव्यसमवेतचाक्षुषम्प्रति चक्षुःसंयुक्तसमवायः कारणम् , द्रव्यसमवेतसमवेतचाक्षुषम्प्रति चतुःसंयुक्लसमवेतसमवायः। एवमन्यत्रापि विशिष्यैव कार्यकारणभावः। परन्तुपृथिवीपरमाणुनीले नीलत्वम्पृथिवीत्वञ्च चक्षुषा कथं न गृह्यते, तत्र परम्परयोद्भूतरूपसम्बन्धस्य महत्त्वसम्बन्धस्य च सत्त्वात् । तथाहिनीलत्वातिरेकैव घटनीले परमाणुनीले च वर्तते । तथाच महत्त्वसम्बन्धो घटनीलमादाय वर्तते । उद्भूत रूपसम्बन्धस्तूभयमादायैव, एवम्पृथिवीपरमाणौ पृथिवीत्वेऽपि घटादिकमादाय महत्त्वसम्बन्धो बोध्यः । एवं वायौ तदीयस्पर्शादौ च सत्तायाश्चाक्षुषप्रत्यक्षं स्यात् । तस्माद् उद्भूतरूपावच्छिन्नमहत्त्वावच्छिन्नचतुःसंयुक्तसमवायस्य द्रव्य
तज्जन्यत्वे सति तज्जन्यजनको व्यापार इति व्यापारलक्षणं न घटते इत्यर्थः । तत्र हेतुमाह-“समवायस्य"-इति ।