________________
इन्द्रियसामान्यलक्षणपरिष्कारः, करणलक्षणञ्च ।
१८७
श्रयस्वाभावात् । श्रादिपदेन दिग्ग्रहः । “मनः''पदनिवेशस्य फलमाह-"इन्द्रियावयव"- इत्यादि । चक्षुरादीन्द्रियाणां येऽवयवाः, घटाद्याश्च ये विषयाः तेषां यः परस्परं संयोगः, सोऽपि प्रत्यक्षम्प्रति कारणमिति प्राश्चः। .
तथाचोक्तं तर्कभाषायाम्-चतुष्टयसन्निकर्षो यथा-इन्द्रियावयवरावयविनाम्, इन्द्रियावयविनामावयवानाम्, इन्द्रियावयवैरावयवानाम्, अर्थावयविनामिन्द्रियावयवानां सन्निकर्ष" इति । एवम्---इन्द्रियावयवोऽपि ज्ञानकारणसंयोगाश्रयः शब्देतरोभूतविशेषगुणानाश्रयश्च, तेन प्राचाम्मते तत्र-इन्द्रियावयवे इन्द्रियलक्षणातिव्याप्तिः स्यात् , तद्वारणाय लक्षणे “मनः" इति पदं दत्तम् ।
नव्यास्तु-काले रूपं नास्ति' इत्याकारकस्य रूपात्यन्ताभावस्य चातुषम्प्रत्यक्षम् , तादृशचातुषप्रत्यक्षकारणीभूतो यश्चतु:संयोग: तस्याश्रयः कालादिरपि, ततश्च कालादावस्यतिव्याप्तिनवीनमते स्यादतोऽपि "मनः"पदमुपात्तम् । यदि तु-"ज्ञानकारणम्" इति पदमदत्वा लक्षणं क्रियेत, तदा सर्वस्य लक्षणस्य कालादावतिव्याप्ति:, सा माभूदित्यर्थ 'ज्ञानकारण"-इति पदमित्यभिप्रायेणाह-"ज्ञानकारणम्" इति । इत्यपि तद्वारणाय-कालादावतिव्याप्तिवारणायेत्यर्थः । इन्द्रियस्य ॐ ऋजुलक्षणन्तु"शरीरसंयुक्तत्वे सति ज्ञानकारणमतीन्द्रियमिन्द्रियम्” इति ध्येयम् । परममूले"करणम्" इत्युक्तम् । करणस्य किं लक्षणमित्याकाङ्क्षां शमयितुं तस्य लक्षणमाह"असाधारणम्'-इत्यादि । न साधारणमसाधारणम् । तत्वञ्च-तदितरावृत्तित्वे सति सकलतवृत्तित्वम् । भवति हि सानादिमत्त्वस्य गवितराऽवृत्तित्वे सति सकलगोवृत्तित्वम् । कारणेऽसाधारणत्वञ्च-कार्यत्वानवच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम् । असाधारणत्वमेव किमत अाह-"असाधारणत्वम्"-इति । तथाच व्यापारे व्यापारवत्त्वाभावान्नातिव्याप्तिरिति भावः।
व्यापारश्च तजन्यत्वे सति तजन्यजनकः । यथा-कुठारजन्यत्वे सति कुठारजन्यायाः छिदाया: जनकः कुठारदारसंयोगः । तादृशसंयोगात्मकन्यापारवत्त्वात् छिदाया असाधारणं कारणं कुठार एव छिदाकरणमुच्यते । एतदेव-"साधकतमं करणम्” (१।४।४२) इति । पाणिनिशासनमित्याभाति । एवम्प्रकृतेऽपि विषयेन्द्रियसग्निकर्षरूपन्यापारवत्त्वात् कारणत्वाञ्च इन्द्रियञ्चाक्षुषादिप्रत्यक्षप्रमारूपफलम्प्रति करणमिति भावः ।
“फलयोगाव्यवच्छिन्नं कारणं करणम्" इति तु प्राञ्चः । अर्थात् यत्सत्वेऽ. व्यवहितोत्तरक्षणेऽवश्यं कार्यञ्जायते, तदेव करणमिति प्राचां नैयायिकानां मतम् ।
* साम्प्रतिकानामतिसुकुमारमतीनां हितं मत्वा तर्कभाषाकारादिमतमनुरुध्याह"ऋजुलक्षणन्तु"-इति ।
+ जैनेन्द्रव्याकरणे तु–साधकतमं करणः" इत्येव सूत्रम्पठितम् ।