________________
सावृतप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
श्राह - "उद्भूतत्वम् ” – इति । "साङ्कर्यात् " - इति । उद्भूतत्वञ्जातिरूपो धर्मो नास्ति किन्तूपाधि: । तत्र साङ्कर्यस्य जातिबाधकत्वादिति भावः । तथाच शुक्लत्वं धर्मं विहाय उद्भूतत्वम् = उद्भूतगन्धे वर्त्तते, एवमुद्भूतत्वं धर्मं विहाय शुक्लत्वं धर्मः श्रनुद्भूतशुक्ले वर्त्तते, उद्भूतशुक्ते तु द्वयोरेव धर्मयोः समावेशरूपः सङ्करः, तस्माबुद्भूतत्वं न जातिः, किन्तु — उपाधिरेव ।
१८६
नानोद्भूतत्ववादिनः पतमुत्थाप्य प्रतिक्षिपति - " नच " - इत्यादिना । " शुक्लत्वादिव्याप्यम् " - इति । श्रादिना नीलत्वादिपरिग्रहः । शुक्लत्वादिनिष्टा या व्यापकता, तादृशव्यापकतानिरूपिता या व्याप्यता, अर्थात् “यत्र यत्र उद्भूतत्वं तत्र तत्र शुक्लत्वम्” इति व्याप्तिरेव । तदाश्रय * उद्भूतत्वमिति नानैव तद्रूपरसादिष्विति पूर्वपक्षी
"उदभूतरूपवत्त्वादिना " - इति । उद्भूतरूपत्वेनेत्यर्थः । चानुपादी= चाचुषादिप्रत्यक्षे इत्यर्थः । जनकत्वाऽनुपपत्तेः - हेतुत्वाऽसिद्धेः । श्रयमर्थः - यदि उद्भूतत्वं नाना तर्हि तस्य चाक्षुषादिप्रत्यक्षम्प्रति कार्यकारणभावो न स्यात्, प्रत्येकमुद्भूतरूपत्वादिव्यक्तेः कारणतास्वीकारे एकस्याः व्यक्तेर्विद्यमानतायामपि उद्भूतत्वव्यक्त्यन्तरस्याऽभावेन कार्यकारणभावव्यभिचारः स्यात् सकलान्येवोद्भूतत्वादीनि एकस्यां घटपटादिव्यक्तौ वर्त्तन्त इत्यत्र तु नैव किमपि मानम्पश्यामः, नापि च सम्भवः, एवमुद्भूतनानात्ववादिनये उद्भूतत्वं न कारणतावच्छेदकमन्यूनाऽनतिरिक्त देशवृत्तित्वाभावादिति सिद्धान्तपक्षी ।
"
कथं तर्हृद्भूतत्वं निरुच्येत ? श्रत श्राह - " किन्तु " - इति । शुक्लत्वादिव्याप्यम्=शुक्लत्वादिनिष्टव्यापकतानिरूपितव्याप्यताश्रयः, श्रनुद्भूतत्वं नानैवेति योजना, तदभावकूटः=अनुद्भूतत्वाभावसमुदाय एवं उद्भूतत्वमित्यर्थः । “शुक्लत्वादिव्याप्यनानाऽनुद्भूतत्वाभावसमुदाय एवोद्भूततत्वम्" इति बोध्यम् । स्यादेवम्प्रकृते किमायातमित्यत आह—“तच्च”- इति । तच्च = तादृशमुद्भूतत्वञ्च संयोगादावप्यस्ति संयोगादिरप्युद्भूतगुणश्चक्षुरादेरिति तेष्वेवाव्याप्ति. स्यात् श्रतस्तद्वारणाय “विशेष" पदोपादानम् । हि संयोगादिर्विशेषगुण इति भावः ।
ननु - " शब्देतरोद्भूतविशेषगुणानाश्रयत्वमात्रं लक्षणम्' स्याद् ज्ञानकारणेत्यादि न वक्यव्यमत ग्रह - "कालादौ " - इति । कालादावतिव्याप्तिवारणाय तदित्यर्थः । कालादिर्न कस्यापि विशेषगुणस्याश्रयः, ततश्च तत्र स्यादेवातिव्याप्तिः । "ज्ञानकारण" " इत्यादिपदोपादाने तु नोक्तदोषः, कालादेश निकारणीभूतमनः संयोगा
* प्रत्यक्षत्वप्रयोजको धर्मविशेष इत्यर्थः । प्रत्यक्ष योग्य रूपरसगन्धस्पर्श संयोगाद्यन्यतमत्वं व। । उद्भूतत्वञ्जाति; तदभावोऽनुद्भूतत्वमिति जरनैयायिकाः । नच शुक्लत्वादिना साङ्कर्यम् । गुणसाङ्कर्यं न बाधकमिति केचित् । अनुद्भूतत्व अतिस्तदभाव उद्धृतत्वमिति गङ्गेशोपाध्यायः ।