________________
१८२
इन्द्रियसामान्यलक्षण परिष्कारः ।
इन्द्रियत्वं धर्मश्वतुरादिषु वर्त्तते । इन्द्रियत्वं धर्मं विहाय पृथिवीत्वं धर्मो घटादिषु वर्त्तते उभयोरनयोरेकत्र घ्राणेन्द्रिये समावेशरूपः सङ्करः ।
तस्मान्नेन्द्रियत्वञ्जातिः । अस्य सखण्डोपाधित्वं समर्थयितुमिन्द्रियं निर्वक्ति"शब्देतरोद्भूत” -- इति । अस्यायमर्थः - शब्दादितरे भिन्ना ये रूपादयः सुखादयश्व उद्भूताः=प्रत्यक्षयोग्याः विशेषगुणाः तेपामनाश्रयत्वे सति, अर्थात् शब्द विहाय अन्ये यावन्त रूपसुखाद्या अनुद्भूतविशेषगुणाः तेषां यदाश्रयः अथचज्ञानस्य कारणीभूतो नाम साधारणकारणं यो मनः संयोगः, तस्य चाश्रयः तत्त्वमेवेन्द्रियत्वमिति निर्वचनार्हत्वादिन्द्रियत्वं सखण्डोपाधिर्नतु जातिरित्यर्थः ।
लक्षणस्य पदकृत्यं दर्शयति - " आत्मादि" - इति । यदि सत्यन्तं नोच्येत तदा "ज्ञानकारणमनः संयोगाश्रय' पदेन श्रात्माऽपि ग्रहीतुं शक्यत इति तत्रेन्द्रियलक्षणातिव्याप्तिः, तस्यापि ज्ञानकारणीभूतस्य मनः संयोगस्याश्रयत्वात् । श्रतः सत्यन्तो ग्रन्थ उक्तः । तादृशसंयोगाश्रयोऽप्यात्मा शब्दादन्ये ये उद्भूतविशेषगुणाः ज्ञानसुखाद्याः तेषामाश्रय एव नानाश्रयः । तस्मान्नातिव्याप्तिरित्यर्थः । यदि लक्षणे "शब्देतरे "ति पदं न दीयेत तदा श्रोत्रेन्द्रिये लक्षणाव्याप्तिः स्यात्, नहि श्रोत्रं विशेषगुणानाश्रयः प्रपित्वाकाशात्मकत्वात् शब्दात्मकविशेषगुणाश्रय एवेति श्रोत्रे
व्याप्तिवारकं "शब्देतरे' 'ति पदम्बोध्यम् । अथ " उद्भूत" पदं विहाय शिष्टं लक्षणमुच्येत अर्थात् " शब्देतर विशेषगुणानाश्रत्वे सति ज्ञानकारणमन:संयोगाश्रयत्वम्" इत्येतावन्मात्रमुच्येत तदा चतुरादिकं विशेषगुणस्य रूपादेराश्रय एव नानाश्रय इति तेष्वव्याप्तिः स्यात् अतस्तद्वारणाय “उद्भूत" पदनिवेशः । यद्यपि - चतुरादीन्द्रियं रूपादिविशेषगुणस्याश्रयोऽस्ति तथापि नोद्भूतविशेषगुणाश्रयः किन्त्वनुद्भूतरूपादिगुणाश्रय इति न तेष्वव्याप्तिगन्धोऽस्ति ।
नच
(मुका० ) उद्भूतत्वं न जाति: शुक्लत्वादिना साङ्कर्यात् । शुक्लत्वादिव्याप्यं नानैवोद्भूतत्वमिति वाच्यम्, उद्भूतरूपवत्वादिना चानुपादौ जनकतानुपपत्तेः । किन्तु शुक्लत्वादिव्याप्यं नानैवानुद्भूतत्वं तदभावकूटश्चोद्भूतत्वम् तश्च संयोगादावप्यस्ति तथाच शब्देतरोद्भूतगुणः संयोगादिश्चक्षुरादेरप्यस्त्यतो विशेषेति । कालादिवारणाय विशेष्यदलम् । इन्द्रियावयवविषयसंयोगस्यापि प्राचाम्मते प्रत्यक्षजनकत्वादिन्द्रियावयववारणाय, नवीनमते कालादौ रूपाभावप्रत्यक्षे सन्निकर्षघटकतया कारणीभूतचक्षुः संयोगाश्रयस्य कालादेश्व वारणाय मनःपदम् । ज्ञानकारणमित्यपि तद्वारणाय करणमिति । असाधारणं कारणं करणम् । असाधारणत्वं व्यापारवत्त्वम् ॥ ५८ ॥
( प्रभा० ) "विशेष पदस्य प्रयोजनं वक्तुम्भूमिकाम् (प्रयोजनसम्पादिकां युक्तिम्)