________________
१८४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
सम्बन्धेन कारणम् । द्रव्यसमवेतसमवेतानां गुणत्वकर्मत्वादीनाम्प्रत्यक्ष स्वाश्रयसमवेतसमवायसम्बन्धेन कारणमिति ।
(प्रभा०) परममूले --'षडविध"--इति । उक्तरूपे षविधे प्रत्यक्ष अर्थात् चाक्षुषे रासने, घ्राणणे, श्रोत्रजे, त्वाचे, मानसे च महत्त्वं कारणम् । लौकिकविषयता सम्बन्धेन जन्यप्रत्यक्षसामान्यम्प्रति महत्त्वं नियतपूर्ववृत्तीत्यर्थः । तन्महत्त्वं केन केम सम्बन्धेन कुत्र कुत्र कारणमिति विवरीतुमाह--"द्रव्यप्रत्यक्ष"--इत्यादि । द्रव्य वृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषम्प्रति स्पार्शनम्प्रतीत्यर्थः । “समवायः सम्बन्धेन"--इति । महत्त्वस्य गुणत्वात् द्रव्यत्वस्य च गुणित्वाद् गुणगुणिनोः समवायाङ्गीकारात् । यत्र द्रव्ये महत्त्वं समवेतं तस्यैव प्रत्यक्षं नान्यस्येत्यर्थः । "स्वाश्रय"--इति । "स्व"पदेन महत्परिमाणग्रहः तदाश्रयो द्रव्यम्, तत्र गुणकर्मसामान्यानि समवेतानि यतः । अर्थात् गुणादीनां समवायो महत्परिमाणस्याश्रयभूते द्रव्ये वर्त्तते । अतो हेतोः उक्तसम्बन्धेन गुणादीनाम्प्रत्यक्षम् , महत्त्वस्य च तत्र हेतुभावः । "द्रव्यसमवेतसमवेतानाम्"--इति । द्रव्ये घटादौ समवेताः गुणाद्याः, तत्र समवेताः गुणत्वाद्याः, तेषामित्यर्थः । स्वाश्रयसमवेतेत्यत्रापि "स्व"पदेन महत्त्वं गृह्मते, तदाश्रयो द्रव्यम्, तत्र समवेताः गुणाद्याः, तेषु समवेता गुणत्वाद्या इत्यर्थः ।
(मुक्ता०) इन्द्रियमिति । अत्रापि षड्विध इत्यनुषज्यते । इन्द्रियत्वं तु न जातिः पृथिवीत्वादिना सार्यप्रसङ्गात् । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वमिन्द्रियत्वम। आत्मादि. वारणाय सत्यन्तम् । उदभूतविशेषगुणस्य शब्दस्य श्रोत्रे सत्त्वाच्छब्देतरेति । विशेषगुणस्य रूपादेश्चक्षुरादावपि सत्त्वादुद्भूतेति ।
(प्रभा०) परममूले--"इन्द्रियं करणम्"--इति । एतस्यार्थं योजयितुमाह मूले--"अत्राऽपि"--इति । "अनुषज्यत"--इति । “महत्त्वं षड्विधे हेतुः"--इति कारिकायां स्थितं षड्विधमिति पदमनुषज्यते सम्बध्यत इत्यर्थः । तथाच--चाक्षुषत्वादिप्रत्येकधर्मावच्छिन्ननिरूपितव्यापारसम्बन्धावाच्छन्नकारणताश्रयीभूतं यत्, तत् इन्द्रियविभाजकचतुष्ट्वादिप्रत्येकधर्मावच्छिन्नमित्यर्थः । तादृशकारणतावच्छेदकाः चतुष्ट्वादिप्रत्येकधर्मा इति भावः । एवम्--षड्विधे प्रत्यक्षे इन्द्रियं करणमित्युक्तम् । करणलक्षणमनुपदं वक्ष्यते । इन्द्रियाणि नाना, इन्द्रियत्वञ्चको धर्मः सकलेन्द्रियवृत्ति, ॐ तस्मादिन्द्रियत्वजातिरूपो धर्मः, ततश्च तेनैव जातिरूपेण इन्द्रियत्वेन धर्मेणैवहेतुतास्तु, निरुक्तरीत्या कार्यकारणभावषट्कापेक्षया लाघवञ्च स्यादिति शङ्का वारयितुमाह--"इन्द्रियत्वम्"--इति । न जातिः किन्तु सखण्डोपाधिः । जातित्वाभावे सङ्करम्बाधकमाह--"पृथिवीत्वादिना"--इति । अयमर्थः--पृथिवीत्वं विहाय
* नित्यत्वे सत्यनेकसमवेतत्वाद् घटत्वादिवदित्यर्थः ।