________________
निर्विकल्पकज्ञानविचारः। .
___ अयमत्राशयः-यदि प्रथमं निर्विकल्पकज्ञानं न स्वीक्रियेत तदा "अयङ्घट" इति घटघटत्वादिविशिष्टं सविकल्पकज्ञानमपि न स्वीकर्तव्यं स्यात् तत्तु न, “घटमहजानामि'' इत्यबाधितानुव्यवसायप्रतीनिबलात्तस्य स्वीकर्त्तव्यत्वात् । तस्मात्सविकल्पकज्ञानात्पूर्व घटघटत्वयोर्यत् पृथक् पृथक् प्रकारतादिशून्यज्ञानं तदवश्यं निर्विकल्पकमेव । तथाच प्रयोगः--"अयवट' इति विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् "दण्डी पुरुष" इति विशिष्टज्ञानवदिति ।
___ ननु-विशेषणज्ञानमपि ज्ञानत्वात्सविकल्पकं किं न स्यादिति चेत् ? न, तस्यापि सविकल्पकत्वे अनवस्थाप्रसङ्गानिर्विकल्पकसिद्धिरिति तत्साधूक्तम्--"अती. न्द्रियम्"--इति । * अत्रैव हेतुमाह--"जात्यखण्डोपाध्यतिरिक्त"--इति । जातिर्घटत्वादिः । अखण्डोपाधिः प्रतियोगित्वादिः । तथाच--घटत्वादिजातिभ्यः प्रतियोगित्वानुयोगित्वाद्यनिर्वचनीयधर्मेभ्योऽखण्डोपाधिपदवाच्येभ्योऽतिरिक्तानां भिन्नानापदार्थानां यज्ज्ञानम् , तस्य । किञ्चिद्धर्मप्रकारकत्वनियमः । किञ्चिद्धर्मः प्रकारो यस्मिन् तादृशो नियमः। - अयं सारः--जात्यादिधर्माणां निरवच्छिन्नज्ञानम् , तद्भिन्नानाजातिमदादिपदार्थानाज्ञानन्तु केनचिद्विशेषणेनावच्छिन्नमेव भवतीति नियमः । तस्मादवश्यमादौ घटत्वादिविशेषणानां निर्विकल्पकज्ञानस्वीकारः ।
प्राभाकरास्तु-निर्विकल्पकं नाङ्गीकुर्वन्ति । एषां विशेषणज्ञानस्य विशिष्टज्ञानप्रति कारणतैव न भवति, द्रव्यविशिष्टप्रत्यक्ष प्रतिसन्धानविशिष्टोऽपि हेतुः । यदाहुः--
विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम् । ... गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥
इति पदार्थरत्नमालाकार। तदयमत्र सारसारः--नामजात्यादियोजनारहितं निष्प्रकारकम् विशेषणमात्रज्ञानं वस्तुस्वरूपमात्रग्रहणस्वभावं निर्विकल्पकमिति नैयायिकाः । यथा-- "किञ्चिदिदम्" इति । अथवा--दूरात् “अस्ति किञ्चित्" इति । अलौकिक आलोचनामको ज्ञानविशेषस्तदिति साङ्ख्याः । ज्ञातृज्ञेयादिविभागशून्यम्ब्रह्मात्मैक्यविषयमखण्डाकारकं विशेष्यविशेषणसम्बन्धरहितम्ज्ञानं तदिति अद्वैतवादिनः।
(मुक्ता०) महत्त्वमिति । द्रव्यप्रत्यक्ष महत्त्वं समवायसम्बन्धेन कारणम् । द्रव्यसमवेतानां गुणकर्मसामान्यानाम्प्रत्यक्षे खाश्रयसमवाय
* विशेषणज्ञानस्य निर्विकल्पकत्व एव । .
+ अयमाशयः-घटस्य जात्यखण्डोपाध्यतिरिक्तत्वेन तत्र घटत्वरूपः किम्चिद्धर्मः प्रकारो बाच्यः । तस्माद् घटत्वाद्यप्रकारकञ्च घटादिविशिष्टज्ञानं व सम्भवतीति सुष्ठूक्तम् ।