________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः [ प्रत्यक्षखण्डे
घटमहञ्जानामीति प्रत्ययात् । तत्रात्मनि ज्ञानम्प्रकारीभृय भासते । ज्ञाने घटस्तत्र घटत्वम् यः प्रकारः स एव विशेषणमित्युच्यते । विशेषणे यद्विशेषणं तद्विशेषणतावच्छेदकमित्युच्यते । विशेषणतावच्छेदकप्रकारकं ज्ञानं विशिष्टवैशिष्ट्यज्ञाने कारणम् । निर्विकल्पके च घटत्वादिकं न प्रकारस्तेन घटत्वादिविशिष्टघटादिवैशिष्ट्यभानं ज्ञाने न सम्भवति । घटत्वाद्यप्रकारकञ्च घटादिविशिष्टज्ञानं न सम्भवति, जात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानस्य किञ्चिद्धर्मप्रकारकत्वनियमात् ।
१८२
( प्रभा० ) यथेत्थं तथोपपादयति-- “ तथाहि " -- इत्यादिना | वैशिष्टयानवगाहिज्ञानस्य= विशेष्यताविशेषणता संसर्गताऽविषयकस्य ज्ञानस्य प्रत्यक्षं न भवति, अर्थात् उक्तज्ञानमनुव्यवसाये न भासते, किन्तु विशिष्टमेव भासते । श्रत्रोपपत्तिमाह -- "घटमहञ्जानामि " -- इति । श्रयमर्थः[:-- ज्ञानस्य ज्ञानमनुव्यवसाय इत्युच्यते । तस्यायमाकारः "घटमहञ्जानामि " इति । तत्र = स्याम्प्रतीतौ श्रात्मनि ज्ञानम्प्रकारीभूय=विशेषणीभूय विशेषणता रूपेण भासते = प्रतीयते । “घटज्ञानवानहम्” इतिज्ञाने= एतस्मिन्ननुव्यवसायात्मके ज्ञाने तु घटः - घटो विशेषणतारूपेण भाति, तादृशे विशेषणताभावमापन्ने घटे च घटत्वम् = जातिरूपो धर्मः “प्रकारीभूय भासते" इति पूर्वेणान्वयः । प्रकारविशेषणयोः पर्यायतास्म्बोधयति - "यः प्रकार " - - इति । प्रकारो विशेषणमित्यनर्थान्तरमित्यर्थः । “विशेषणे” - - इति । विशेषणे = ज्ञानविशेषणीभूते घटे यत् घटत्वं विशेषणं तदेव "विशेषणतावच्छेदकम्" इति शास्त्रसङ्केतः । "विशेषणतावच्छेदकप्रकारकम् " - - इति । विशेषणतावच्छेदकम् = घटत्वम्प्रकारो यस्य तादृशं यज्ज्ञानम् " अयङ्घट" इत्याकारकं विशिष्टज्ञानं तदेव विशिष्टवैशिष्ट्यज्ञाने= “घटमहञ्जानामि" इत्याकारके अनुव्यवसायात्मके ज्ञाने कारणम् = हेतुरित्यर्थः । इत्थञ्च -- प्रथमं चिशकलितरूपेण जायमानं घटत्वादिविशेषणज्ञानं वैशिष्ट्यानवगाह्येव स्वकिर्त्तुमुचितम् । श्रन्यथा--"प्रयङ्घट" इति विशिष्टज्ञानमेव नोत्पद्येत तदभावे च "घटमहञ्जानामि " इति विशिष्टवैशिष्ट्याद्यवगाहि ज्ञानमपि न स्यात् ।
7
--
एतत्समर्थयति--"निर्विकल्पक " - - इति । "न प्रकार " - - इति । श्रर्थात् घटत्वादिधर्माणाम्प्रकारतारूपेण नैव भानं निर्विकल्पके, तेन हेतुना घटत्वादिविशिष्टा ये घटाद्याः तेषां वैशिष्ट्यभानम् = विशेषणतावगाहिज्ञानम्, ज्ञाने= निर्विकल्पकाख्ये नैव जायत इत्यर्थः । " घटत्वाद्यप्रकारकम् " - - इति । घटत्वादिः न प्रकारो विशेषणं यस्मिन् तादृशं यज्ज्ञानम् । श्रर्थात् घटादिरेव यत्र * प्रकारः तज्ज्ञानं विशिष्टमेव न सम्भवति ।
* यत्र घटादिरेव केवलम्प्रकारत्वेन भासते, नतु घटत्वादि तज्ज्ञानं विशिष्टमेव न भवतीत्यर्थः ।