________________
निर्विकल्पकज्ञानविचारः।
१८१
नामादिविशेषणवैधुर्येण स्वलक्षणमात्रविषयं निर्विकल्पकम् । विशेष्यविशेषणसम्बन्धैतत्त्रितयातिरिक्तविषयतानिरूप्यमित्यर्थः ।
अयम्भावः--निर्विकल्पके चतुर्थी विषयता स्वीक्रियते, नतु त्रिविधविषयतामध्ये कापि तत्रास्ति विषयता । अत एव यथा “इदं किञ्चित्" इति तदुदाहरन्ति । भट्टपादोऽपि---
अस्ति ह्यालोचनं ज्ञानम्प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ इति । शुद्धवस्तुजम् विशेषणविशेष्यभावानुल्लेखीत्यर्थः । एतत्सर्व हृदि कृत्वा विवृणोति मुक्तावलीकारः--"चतुःसंयोगाद्यनन्तरम्" इति । तस्याऽयमर्थः--घटचक्षुःसंयोगानन्तरजायमानम् “अयचट' इत्याकारकं ज्ञानं घटत्वादिप्रकारकघटत्ववद्विशेष्यकस्वरूपं यद्विशिष्टं ज्ञानम् , तादृशं न सम्मवति-नोत्पद्यते, न भवितुमर्हतीत्यर्थः । अत्र हेतुमाह--"पूर्वम्"--इति । पूर्वम् घट इति ज्ञानाऽव्यवहितप्राक्क्षण इत्यर्थः । विशेषणस्य="घट" इति ज्ञाननिरूपितविशेषणताश्रयस्य घटत्वादेखनाभावात्-घटत्वादिनिष्ठविशेषणताविषयिण्या बुद्धेरभावादित्यर्थः ।
ननु--घटत्वज्ञानाभावे "घट" इति ज्ञानाभावः कुतो हेतोरित्यत पाह-- "विशिष्टबुद्धौ'---इति । विशिष्टबुद्धौ-विशिष्टज्ञाने विशेषणज्ञानस्य-धर्मज्ञानस्य कारणत्वात् । “नागृहीतविशेषणा बुद्धिर्विशिष्ट उपजायते" इति नियमादिति भावः । एतदेव पिण्डीकृत्य दर्शयति--"तथाच"--इति । घटघटत्वयोः विशेष्यविशेषणयोः धर्मिधर्मयोरित्यर्थः । वैशिष्टयानवगाहि-एव-विशेष्यत्व प्रकारत्व-संसर्गत्वाऽविषयकमेव ज्ञानञ्जायते । तदेव-उक्ताकारं वैशिष्टयनिष्ठसांसर्गिकविषयतानिरूपितविषयिताशून्यमेव निर्विकल्पकम्भवतीति शेषः । तच्च-निर्विकल्पकं न प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यं नेत्यर्थः । लौकिकविषयताशून्यमित्यत्र तात्पर्यमाभाति । तथाच-- "अयवट इति विशिष्टबुद्धिर्विशेषणज्ञानजन्या विशिष्टबुद्धित्वात् दण्डी पुरुष इति विशिष्टबुद्धिवत्" इति निर्विकल्पेऽनुमानम्मानम्फलितम् ।
अत्राऽयम्बालहितः सरलसार पन्थाः--"अयङ्घट" इत्याकारकम्ज्ञानं विशिष्टज्ञानम् । यतोऽस्मिन् ज्ञाने घटघटत्वे तयोः सम्बन्धश्च भासते । तत्र घटत्वं विशेषणम् , घटो विशेष्यः, तयोः जातिव्यक्तिरूपयोः परस्परं यः समवायः सः सम्बन्धः । एतस्त्रितयमेव चोक्ताकारेण ज्ञानेन विषयीक्रियते । विशिष्टज्ञानञ्च विशेषणज्ञानपूर्वकमेवेत्यस्ति नियमः । ततश्च यत्पूर्व घटघटत्वयोर्विशकलितम्-पृथक् पृथक् ज्ञानमासीत्, तदेव वैशिष्टयानवगाहि “इमे घटघटत्वे" इत्याकारकं निर्विकल्पकमित्युच्यते । तच्च न प्रत्यक्षम् (किन्तु दर्शितरीत्याऽनुमेयम् )।
(मुक्ता०) तथाहि--वैशिष्ट्यानवगाहिज्ञानस्य प्रत्यक्षं न भवति,