________________
१८० सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
___ अत्रैव पक्षधरमिश्रमतमाह-"अन्ये तु"-इति । सुषुप्त्यनुरोधेनसुषुप्तौ ज्ञानानुत्पादानुरोधेन । चर्ममनःसंयोगस्य-त्वगिन्द्रियगोलकस्थानेन सह मनःसंयोगस्य । ज्ञानहेतुत्वम् ज्ञानसामान्यम्प्रति कारणत्वम् । कल्प्यते अनुमीयते । एतेन कल्पेन चाक्षुषादिप्रत्यक्षकाले उक्तस्पार्शनापत्तिरूपो दोषो नास्ति, तदा मनसः त्वगिन्द्रियेण साकं सन्निकर्षाभावात् , नापि च प्रतिबध्यप्रतिबन्धकभावकल्पनागौरवमित्यभिसन्धाय आह--"त्वङ्मनःसंयोगाभावात्”–इत्यादि । अत्र बहु वक्तव्यं ग्रन्थगौरवभयानोक्तम् ।
(का०) मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥५७॥
(मुक्ता०) मनोग्राह्यमिति । मनोजन्यप्रत्यक्षविषयमित्यर्थः । मतिनिम् । कृतिः प्रयत्नः । एवं * सुखत्वादिकमपि मनोग्राह्यम् । एव. मात्मापि मनोग्राह्यः । किन्तु मनोमात्रस्य गोचर इत्यनेन पूर्वमुक्तत्वादत्र नोक्तः ॥ ५७॥
(प्रभा०) मनसोऽसाधारणविषयानाह परममूले--"मनोग्राह्यम्"--इति । मनोग्राह्यत्वस्य सार्वत्रिकत्वादाह--"मनोजन्य"--इति । मनोमात्रजन्येत्यर्थः । न्यूनताम्परिहरति--"एवम्"--इति । अात्माऽपि मनोग्राह्य इति चेत् कुतस्तर्हि कारिकायां तथा नोक्त इति शङ्कां वारयति--"किन्तु"--इति । (का०) ज्ञानं यनिर्विकल्पाख्यं तदतीन्द्रियमिष्यते ।
महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ।।५८॥ (मुक्ता०) चतुःसंयोगाद्यनन्तरं घट इत्याकारकं घटत्वादिविशिष्टं ज्ञानं न सम्भवति पूर्व विशेषणस्य घटत्वादेर्शानाभावात् । विशिष्टबुद्धौ विशेषणशानस्य कारणत्वात् । तथाच प्रथमतो घटघटत्वयोवैशिष्ट्यानवगा व ज्ञानञ्जायते । तदेव निर्विकल्पम् । तच्च न प्रत्यक्षम् ।
(प्रभा०) एवमिन्द्रियगोचरम्प्रत्यक्षमुत्का इन्द्रियगोचरो यत् तदाह परममूले-- "ज्ञानं यत्"--इति । निर्गतो विकल्पः प्रकारतादिकृतो विशेषो यस्मात् तत् निर्विकल्पम् । निर्विकल्पमाख्या यस्य तनिर्विकल्पाख्यम् , तथाभूतं यज्ज्ञानं तदिन्द्रियाण्यतिक्रम्य वर्तत इति । अतन्द्रियम् इन्द्रियागोचर इत्यर्थः । इष्यते-नैयायिकरिति शेषः । उक्तञ्च तार्किकरक्षायाम्--
नामादिभिर्विशिष्टार्थविषयं सविकल्पकम् ।
अविशिष्टार्थविषयम्प्रत्यक्षं निर्विकल्पकम् ॥ इति । * कचित्-सुखत्वदुःखस्वादिकमिति पाठः । तत्र-प्रादिपदात् ज्ञानत्वेच्छात्वादेः परिग्रह इत्येवं व्याख्येयम् ।