________________
त्वङ्मनःसंयोगस्य ज्ञानसामान्यम्प्रति कारणत्वे आक्षेपसमाधाने।
१७६
रासनचाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात् । विषयत्वक्संयोगस्य त्वङ्मनःसंयोगस्य च सत्त्वात् । परस्परप्रतिबन्धादेकमपि वा न स्यादिति । अत्र केचित्-पूर्वोक्तयुक्त्या त्वङ्मनोयोगस्य ज्ञानहेतुत्वे सिद्धे चाक्षुषादिसामग्रयाः स्पार्शनादिप्रतिबन्धकत्वमनुभवानुरोधात्कल्प्यते इति । अन्ये तु-सुषुप्त्यनुरोधाचर्ममनःसंयोगस्य शानहेतुत्वं कल्प्यते । चाक्षुषादि. प्रत्यक्षकाले त्वङ्मनःसंयोगाभावान्न स्पार्शनप्रत्यक्षमिति वदन्ति ।
(प्रभा०) त्वङ्मनःसंयोगस्य ज्ञानसामान्यम्प्रति कारणभावमसहमानः शङ्कते"अथ"-इति । रासनचाक्षुषादिप्रत्यक्षादिकाले-अाम्रादिरसानां रसनेन्द्रिय जन्यप्रत्यक्षकाले अाम्ररूपादिगतचक्षुरिन्द्रियजन्यप्रत्यक्षकाले वा त्याचप्रत्यक्षम् त्वगिन्द्रियजन्यं स्पर्शादिप्रत्यक्षमपि स्यात् । अत्र हेतुमाह-"विषयत्वक्संयोगस्य"इति । विषयः अाम्रादिरेव । त्वक्संयोगस्य ज्ञानमात्रम्प्रति कारणत्वात् तेन सह त्वङ्मन:संयोगस्य च सत्त्वात् ।
ननु-चाक्षुषादिसामग्रथाः इन्द्रियसन्निकर्षरूपायाः स्पार्शनादिप्रतिबन्धकत्वं कल्पयिष्यते इत्यत आह-"परस्पर" इति । रासनसामग्रयाः चाक्षुषप्रतिबन्धकत्वात् चानुषसामग्रया रासनप्रतिबन्धकत्वात् परस्परप्रतिबन्धकत्वम् । एकमपि3 *किमपि रासनं वा चाक्षुषं वा ज्ञानं न स्यादित्यर्थः। . . . . ___ज्ञानसामग्रीषु परस्परम्प्रतिबन्धकप्रतिवध्यभावस्य कल्पनायान्तु विषयेन्द्रियसंयोगस्य इन्द्रियमनःसंयोगस्य च सर्वत्र सत्त्वात् किमपि ज्ञानं न जायेत । संयोगरूपायास्तस्याः परस्परप्रतिबन्धकत्वादिति भावः ।
ज्ञानसामान्यम्प्रति त्वङ्मनःसंयोगस्य कारणवादी समाधत्ते-“अत्र केचित्"इति । पूर्वोक्तयुक्त्या सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्तमानेन मनसा ज्ञानाजननमित्याकारिकया युक्त्या इत्यर्थः । त्वङ्मनोयोगस्य ज्ञानहेतुत्वे-ज्ञानकारणत्वे सिद्धेः प्रमाणसम्पन्ने । चाक्षुषादिसामग्रयाः चतुःसंयोगादिरूपाया: स्पार्शनादिप्रतिबन्धकत्वम्=त्वाचादिप्रत्यक्षप्रतिबन्धकत्वम्=त्वाचादिप्रत्यक्षविघटकत्वम् ।
. अस्याऽयमर्थः--चाक्षुषादिप्रत्यक्षसामग्री स्पार्शनप्रत्यक्षप्रतिबन्धिका तेन चाक्षुषादिज्ञानकाले त्वङ्मन संयोगसत्त्वेऽपि न स्पार्शनम्प्रत्यक्षमिति । एतदेव कुत इत्यत आह-"अनुभवानुरोधात्" इति । अनुभवबलादित्यर्थः । कल्प्यते अनुमीयते । तथाचायम्प्रयोगः-घटचक्षुरिन्द्रियसन्निकर्षः स्पार्शनप्रत्यक्षप्रतिबन्धकः "रूपी घटः" इत्याकारकज्ञानजनकत्वात् यन्नैवं तत्रैवमिति ।
* किमपि-किञ्चिदपीत्यर्थः । + एकम्फलबलेनान्यत्रापि घटनीयम् । * रूपविशिष्टघटविषयकज्ञानजनकत्वादित्यर्थः ।