________________
१७८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
माणम् “यत्र धूमस्तत्र वह्निः' इत्यादिरूपम् । “नानुमितिः"- इति । अनुमितिम्प्रति तस्य करणत्वादिति भावः । “सादृश्यज्ञानाभावात्”- इति । अनुयोगितासम्बन्धेन तद्गतभूयोधर्मवत्त्वं यत् सादृश्यं तस्य ज्ञानम् । यथा 'घटसदृशः पटः" यथा वा"गोसदृशो गवय' इत्याद्याकारकं तदभावादेव । “नोपमितिः"- इति । उपमितेः सादृश्यज्ञानजन्यत्वादित्यर्थः । “पदज्ञानाभावात्”- इति । "शक्तम्पदम्" इति वक्ष्यमाणलक्षणकम्पदम्, तस्य ज्ञानम् । यथा-"घटो घटपदवाच्य” इत्याकारकम् , अर्थात् पदीयशक्तिज्ञानम्, तस्याभावादित्यर्थः । "न शाब्दबोधः' इति । वाक्यार्थबोधो नेत्यर्थः । शाब्दबोधम्प्रति पदज्ञानस्य करणत्वात् । 'इत्यनुभव"इति । अनया रीत्या अनुभवात्मकज्ञानसामग्री सुषुप्तौ नास्ति, अत एवाऽनुभवात्मकं ज्ञानमपि नत्र नास्तीति भावः । - ननु-अस्तु तत्र सरणात्मकं ज्ञानम् ? अत अाह-"उद्बोधकाभावात्"इति । स्मृतिप्रयोजकाभावादित्यर्थः । संस्कारजन्यज्ञानं स्मृति: । संस्काराश्च ® सादृश्यादिक्षानद्वारा उद्बुद्धाः सन्त एव स्मृतिअनयन्ति नानुबुद्धाः, सुषुप्तौ च संस्कारोद्वोधकं किमपि कारणं नास्ति, अतस्तत्र स्मृतिरपि नेत्याशयः । तस्मात्सुषुप्तौ त्वङ्मनोयोगे सत्यपि तत्तज्ज्ञानसामग्रयभावान्न ज्ञानसम्भावना, तत्कथं सुषुप्तौ ज्ञानाऽजननं ज्ञानसामान्यम्प्रति त्वानोयोगस्य कारणभावाय गमकं स्यादित्याक्षप्तुराशयः ।
तदेतत् खण्डयितुमाह -"मैवम्" इत्यादि । “सुषुप्तिप्राकाल"--इति । सुषुप्तिप्राक्काले यस्मिन् क्षणे सुषुप्तिस्तदव्यवहिते पूर्वस्मिन् क्षणे, उत्पन्ना या इच्छादिव्यक्तिः इच्छाया श्रादिरिति व्युत्पत्त्या ज्ञानव्यक्ति:="अयचटः, अयम्पटः" इत्याकारकं यत् किमपि ज्ञानमित्यर्थः, तत्सम्बन्धेन संयुक्तसमवायसम्बन्धेन "अहं सुखी, अहं ज्ञानवान्' इत्याकारकं यदात्मनः प्रत्यक्षं तस्य प्रसङ्गोऽवश्यम्भावी, यदि त्वङ्मनःसंयोगो ज्ञानसामान्यम्प्रति कारणम्मन्येत । मम तु तदा त्वङ्मनःसंयोगाभावादेव सुषुप्तेः पूर्वक्षणे विद्यमानायामपि यस्यां कस्याञ्चिज्ज्ञानव्यक्तौ नैवात्मनः प्रत्यक्षमिति सिद्धान्तग्रन्थार्थः । नन्वास्तां तदतीन्द्रियमेवेत्यत पाह-"तदतीन्द्रियत्व"-इति । ज्ञानातीन्द्रियत्व इत्यर्थः । मानाभावात्-प्रत्यक्षादिप्रमाणाभावात् ।
ननु-निर्विकल्पकत्वात् सुषुप्तिप्राक्कालीनं ज्ञानमतीन्द्रियमित्यत आह"सुषुप्तिप्राकाल" इति । नहि प्रकारताविशेष्यतासंसर्गतानवगाहिज्ञानं नियमेन सुषुप्तिपूर्वक्षणे उत्पद्यत इति भावः ।
(मुक्ता०) अथ ज्ञानमात्रे त्वङ्मनःसंयोगस्य यदि कारणत्वन्तदा
* आदिना प्रणिधानादीनां सङ्ग्रहः । एते च-स्मृतिहेतव: "प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्य"- (न्या ० ३।२।४) इति सूत्रोक्ता वेदितव्याः ।
+ मन:संयुक्त प्रात्मा, तस्मिन् समवायः इच्छादिव्यक्तेः-दर्शिताकारस्य ज्ञानस्येत्यर्थः ।