________________
त्वङ्मनः संयोगस्य ज्ञानसामान्यम्प्रति कारणत्वे समाधाने । १७७
हृदयारपुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते" ( बृहदा० ५ । १ । २१ ) इति । यदि त्वङ्मनः संयोगो ज्ञानसामान्यम्प्रति कारणं न भवेत् तदा सुषुप्त्यवस्थायामपि ज्ञानेन भाग्यम्, परं तदा किमपि ज्ञानं न भवति, तस्मात् तत्र ज्ञानानुत्पत्तिरेवात्र * प्रमाणमित्यर्थः ।
( मुका० ) ननु - सुषुप्तिकाले किं ज्ञानम्भविष्यति, अनुभवरूपं स्मरणरूपं वा ? । नाद्यः अनुभवसामग्रयभावात् । तथाहि-- प्रत्यक्षे चक्षुरादिना मनः संयोगस्य हेतुत्वात्तदभावादेव न चाक्षुषादिप्रत्यक्षम् । ज्ञानादेरभावादेव न मानसम्प्रत्यक्षम् । ज्ञानाद्यभावे चात्मनोऽपि न प्रत्यक्षमिति । एवं व्याप्तिज्ञानाभावादेव नानुमितिः | सादृश्यज्ञानाभावानोपमितिः | पदज्ञानाभावान्न शाब्दबोधः इत्यनुभवसामग्रयभावान्नाऽनुभवः । उद्बोधकाभावाच्च न स्मरणम् । मैवम् । सुषुप्तिप्राक्कालोत्पन्नेच्छादिव्यक्लेस्तत्सम्बन्धेनात्मनश्च प्रत्यक्षत्वप्रसङ्गात् । तदतीन्द्रियत्वे मानाभावात् । सुषुप्तिप्राक्काले निर्विकल्पकमेव नियमेन जायत इत्यत्राऽपि प्रमाणाभावात् ।
(प्रभा०) सुषुप्तौ त्वङ्मनः संयोगसत्वेऽपि ज्ञानसम्भावनैव नेति मन्वानः शङ्कते - " ननु” – इति । विकल्पयति - " अनुभवरूपम् ” - इत्यादिना । प्रथमपक्षं निराकरोति - " नाद्य " - इति । अनुभवसामप्रथा श्रभावं दर्शयति - " तथाहि "इति । " प्रत्यक्ष " - इति । चतुर्विधेष्वनुभवेषु श्राद्योऽनुभवः प्रत्यक्षन्नाम, तत्र चाक्षुषप्रत्यक्षम्प्रति चतुर्मनः संयोगः कारणम् त्वाचम्प्रति त्वमनः संयोगो रासनम्प्रति रसनेन्द्रियमनोयोग इत्यादि स्वयमूह्यम् । किन्तु — सुषुप्तौ तत्तदिन्द्रियसंयोगात्मकसामग्रया - अभावादेव न बाह्यः प्रत्यक्षात्मकोऽनुभव इत्यर्थः ।
ननु – बाह्यम्प्रत्यक्षम्माभूत् मानसन्तु स्याद् अत श्राह - "ज्ञानादेरभावादेव” – इति । अस्यायमाशयः - द्विविधो मानसोऽनुभवः, श्रात्मगतज्ञानादिगुणविषयकः श्रात्मविषयकश्च । तत्र - - ज्ञानादेर्विशेषगुणस्याभावान्नाद्यः । ज्ञानादियोग्य गुणसम्बन्धेनैव श्रात्मनोऽपि मानसम्प्रत्यक्षं नान्यथेति कृत्वा योग्यविशेषगुणात्मकप्रत्यक्ष सामग्रयन्तर्गतस्य ज्ञानादेरभावादेव द्वितीयोऽपि नेति प्रघट्टकार्थः ।
"व्याप्तिज्ञानाभावादेव" - इति । व्याप्तिज्ञानं साहचर्यनियमात्मकं वक्ष्य
एतच्च
- " स्वाप्ययात् " ( ब० सू० १ । १ । १ ) इत्यत्र " यत्रतत्पुरुषः स्वपिति नाम"( छा० ६ । ८ । १ ) इति श्रुतिमूलकं विवरीतम्भगवच्छङ्करपादैः । मध्वमते - " तद्यथा प्रियया स्त्रिया सम्परिष्वतः" ( बृहदा० ६ । ३ । १ ) इति श्रुत्या जीव: सुषुप्त्यवस्थायाम्परमात्मनः आलिङ्गनमात्रम्प्राप्नोति । तस्मात्परमात्मालिङ्गनावस्थैव सुषुप्तिः । प्रपञ्चस्त्वन्यतो ज्ञेयः ।
* अन्न - जन्यज्ञानसामान्ये ।
de