________________
१७६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्कावल्याः . [प्रत्यक्षखण्डे
एवं सति वायो; ऊष्मादेश्च स्पार्शनम्प्रत्यक्षं न भविष्यति । नैव भवतीति स्वीकुर्म इति चेत् ? शरीरपवनसंयोगानन्तरम् “शीतो वायुः" "अनुप्णो वायुः" इत्यादिकजायमानं स्पार्शनम्प्रत्यक्ष वारयतु भवान् ।
ननु-स्पर्शमानगोचरं एवाऽयम्प्रत्ययो नतु द्रव्यगोचर इति चेत् ? “वायु स्पृशामि" इत्याकारकानुव्यवसायापलापः कथम् ? कथन्तराञ्च वायुविशेष्यकत्वभानम् । अपिच-महत्त्वोद्भूतस्पर्शवत्त्वस्यैव बाह्यद्रव्यप्रत्यक्षमात्रम्प्रति कारणत्त्वमुच्यताम्प्रभायाः प्रत्यक्षत्वाभावश्चेष्टम्मन्यताम् । “प्रभाम्पश्यामि' इति प्रत्यक्ष बलवान् महदुद्भूतरूपवत्त्वस्य कारणभाव इति चेत् । “वायुं स्पृशामि" इत्यत्र प्रत्ययेऽपि दृष्टिपातो विधीयताम् ।
ननु-एवं कश्चिदेव सिद्धान्तो न निर्गत इति चेत् ? बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षत्वावच्छिन्नम्प्रति न तादृशं रूपं नवा तादृशः स्पर्शः कारणम् । किन्तु-तत्र विभुवृत्तिभिन्नविशेषगुणवत्वमेव तन्त्रमस्तु । तथाच-द्वयोरपि प्रत्यक्षत्वे न किञ्चिद्वाधकमित्येष एव न्यायसिद्धान्तमञ्जर्यादिसारसारः * ॥ ५६ ॥
(का०) त्वचो योगो मनसा ज्ञानकारणम् ।
- (मुक्ता०) त्वङ्मनःसंयोगो ज्ञानसामान्ये कारणमित्यर्थः । किन्तत्र प्रमाणम् , सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्तमानेन मनसा ज्ञानाs. जननमिति ।
(प्रभा०) जन्यज्ञानमात्रस्य साधारणकारणमाह-"त्वचोयोग" इति । "ज्ञानसामान्य"-इति । जन्यज्ञानमात्र इत्यर्थः । अत्र प्रमाणम्पृच्छति--"किं तत्र"-इति । उत्तरयति--"सुषुप्तिकाल"- इति । "ज्ञानाजननम्" इत्यत्र प्रमाणमित्यनुषज्यते । निद्रानाड्यवच्छिन्नात्ममनोयोगः । सुषुप्तिः। इयमेव - गाढा निद्रा इत्युच्यते । निद्रानाडी पुरीतत् । अत्र श्रुतिः-"हिता नाम नाड्यो द्वासप्ततिसहस्राणि
* इत्थञ्च-"ज्ञेय: स्पर्शादिलिङ्गकः' इत्यादिर्वायोरनुमेयोक्तिः प्राचाम्मतमनुरुध्यैव । विश्वनाथस्य स्वकम्मतमपीदमेवाभाति अत्र-"आहुरित्यस्वरसोद्भावनादिति विभावयाम: ।
सुषुप्तेरुत्पत्तिक्रममित्थमा चक्षते नव्याः । तथाहि-प्रथमं सुषुप्त्यनुकूलमनःक्रियया मनसाऽऽत्मनो विभागः, तत आत्ममनःसंयोगनाशः, ततः पुरीतदात्मकोत्तरदेशेन मनसः संयोग उत्पद्यते सैव सुषुप्तिः । . अत्रेदम्बोध्यम्-साङ्क्षयमते सुषुप्तिबिधा अर्धलय समग्रलयभेदात् । अर्धलये विषयाकारा . वृत्तिर्न भवति, किन्तु स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिर्जायते । समग्रलये तु बुद्धवृत्तिसामान्याभावो मरणादाविव भवति । एतच्च-"सुषुप्त्याद्यसाक्षित्वम्" (सां० अ० १ । सू० १४८ ) इत्यत्र भिक्षुणा व्याख्यातम् । मायावादिमते तु-समग्रलये तु जीवः परमात्मनैक्यमाप्नोति ।