________________
बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे प्राचामर्वाचाञ्च मतम् ।
१७५
नवीनो विनिगमनाविरहम्मन्वानः प्रकारान्तरेण समाधत्ते- "उदभूतस्पर्श"-इति । बहिर्द्रव्यमानप्रत्यक्षत्वाऽवच्छिन्नम्प्रति उद्भूतस्पर्श एव कारणमस्तु, अर्थात् यथा भवान् लाघवबललोभेन रूपं कारणम्मन्यते, तथैव समानयुक्त्या तत्र उद्भूतस्पर्श एव कारणम्मन्यतां को दोषः ? ।
ननु-एवं सति प्रभायाः प्रत्यक्षं न भविष्यति, तत्रोद्भूतस्पर्शाभावात् अत आह-"प्रभाया"- इति । अप्रत्यक्षत्वे-प्रत्यक्षाभावे । यथा-वायोरप्रत्यक्षत्वे इष्टापत्तिः, तथा प्रभाया अप्रत्यक्षत्वे एवेष्टापत्तिरभ्युपगम्यतां विनिगमनाभावात् ।
नवीन उपसंहरति-"तस्मात्" इति । उक्तबाधकसत्त्वादित्यर्थः । "किं नेष्यत"-इति । तथाच प्रभाया: प्रत्यक्षत्वस्य उभयाऽनुमतत्वेन अप्रत्यक्षत्वस्योभयोरप्यनिष्टत्वेन अनिष्टप्रसञ्जनात्मकतर्कसत्त्वाद्वायोरप्रत्यक्षत्वं नाङ्गीकार्यमिति भावः । 'प्रभाम्पश्यामि” इति प्रभाविषयकचाक्षुषप्रत्यक्षवत् "वायुं स्पृशामि" इति वायुविषयकत्वाचप्रत्यक्षमपि स्वीक्रियतां समानप्रतीतिबलादिति नव्यनैयायिकस्य हृदयम् । एतदेव स्वयं स्फुटीकरणं वदति- 'बहिरिन्द्रियजन्य"-इति । पृथक् पृथगेव कार्यकारणभाव इत्यर्थः । नव्यः स्वपक्षे युक्त्यन्तरमाह-वायुप्रभयाः" इति । "अयमेकः पौरस्त्यो वायु:” “इमौ द्वौ दक्षिणोत्तरानिलौ" इति वायुगतसङ्घयायाः यथा त्वगिगिन्द्रियेण ग्रहः, तथैव वायोरपि ग्रहः । यथा "इयमेका सौरी प्रभा" ''इमे द्वे प्रभे" इति प्रभागतसङ्ख्यायाश्चक्षुषा ग्रहो भवति तद्वदित्यर्थः । तथाचद्वयोरेव भिन्नम्भिन्नम्प्रत्यक्षमिति परः सारः । “कचित्”- इति । प्रभयोर्वायोश्च विलक्षणसंयोगाभावस्थले इत्यर्थः । आदिना परिमाणग्रहः । “द्वितीयोऽयम्महान् वायुः” इति प्रत्ययादिति भावः । “सङ्ख्यापरिमाणाद्यग्रह"-इति । सजातीयसंवलनादिरूपदोषादित्यर्थः । “आहुः” इत्यनेनास्वरसः सूचितः, तीजन्तु वायोः प्रत्यक्षतासन्देहेन लाघवान्मूर्तद्रव्यप्रत्यक्षत्वावच्छिन्नम्प्रति = यावन्मूर्तद्रव्यप्रत्यक्षम्प्रति रूपत्वावच्छिन्नं कारणमित्येवं कार्यकारणभावो युक्तः । अधिकं दिनकर्यादौ द्रष्टव्यम् ।
अत्रेदमाभाति-द्रव्यचाक्षुषमात्रम्प्रति महत्त्वाद्भूतरूपवत्त्वम् , द्रव्यस्पार्शनमात्रम्प्रति महत्त्वोद्भूतस्पर्शवत्त्वञ्च हेतुरिति पर्यवसितम् । तथापि बहिरिन्द्रियजन्यदन्यप्रत्यक्षत्वावच्छिन्नम्प्रति किं नियामकमिति भवत्येवाकाङ्क्षा।
ननु-महत्त्वोद्भूतस्पर्शवत्त्वमेवास्तु नियामकमिति चेत् ? प्रभायाः प्रत्यक्षं न भविष्यति । इष्टापत्तिरिति चेत् ? प्रभायास्तेजोरूपत्वात् “प्रभाम्पश्यामि" इति प्रतीतेश्च अनिष्टापत्तिरेव सा । अथ इयम्प्रतीती “रूपम्पश्यामि' इति वत् (प्रभायाः) व्यत्वाभावेऽप्युपपन्नेति चेत् ? "प्रभा चलति" "प्रभा शुक्रा" इति प्रत्ययः कथम् ? भान्तिरूपोऽयम्प्रत्यय इति चेत् ? बाधकम्ब्रूहि, बाधकप्रत्ययं विना पूर्वप्रत्ययस्य भ्रमत्वायोगात् । अस्तु तर्हि उद्भूतरूपवत्त्वमेव बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रम्प्रति हेतुः ?.