________________
१७४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
बहिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपस्य न वा स्पर्शस्य हेतुत्वम् । वायुप्रभयोरेकत्वं गृह्यत एव, क्वचिद् द्वित्वादिकमपि, क्वचित्सङ्ख्यापरिमाणाद्यग्रहो दोषादित्याहुः ॥ ५६॥
(प्रभा०) वायोः प्रत्यक्षत्ववादिनाम्मतमुपन्यस्यति-"नवीनास्तु"-इति । गङ्गेशोपाध्यायप्रभृतयो नव्या न्यायाचार्याः । अस्य "बाहुः" इत्यनेनाग्रिमेण सम्बन्धः । “बहिरिन्द्रियजन्य"- इत्यादि । प्रमाणाभावात् वायौ उद्भूतरूपा. भावे अपि प्रत्यक्षोत्पत्या अन्वयव्यतिरेकसहकृतप्रत्यक्षप्रमाणाभावादित्यर्थः ।
* एषामयमाशयः-बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षज्ञानम्प्रति रूपमेव कारणमित्यत्र नैव किञ्चित्प्रमाणमुपलभामहे । किन्तु-रूपसत्त्वे चाक्षुषम्प्रत्यक्षं तदभावे तदभावः चाक्षुषप्रत्यक्षाभावः । स्पर्शसत्त्वे त्वाचम्प्रत्यक्षम् , तदभावे तदभावः स्पार्शनप्रत्यक्षाभाव: इत्यन्वययव्यतिरेकबलेन चाक्षुषप्रत्यक्षम्प्रति रूपम् , त्याचम्प्रति स्पेशः कारणमस्तु । तेन च वायोरपि त्वाचम्प्रत्यक्षम्भवत्येवेति न वायुरनुमेयः। .
जरनैयायिकः शङ्कते-“बहिरिन्द्रिय"-इति । "प्रत्यक्षमात्र"- इति । प्रत्यक्षसामान्य इत्यर्थः । “किं कारणम्" इति । किमनुगतं कारणमित्यर्थः । नव्यः समाधातुमाह-"न"-इति । न किमप्यनुगतं कारणम्, किन्तु-विशिष्यैव कार्यकारणभावः । यथाचोपरि दर्शितम् । कल्पान्तरमाह-"आत्मावृत्ति" इति । अस्यायमर्थ:- प्रात्मनि न वृत्तिर्यस्य तादृशो यः शब्दभिन्नो विशेषगुण: । अर्थात् पृथिन्यादिचतुष्टयवृत्तिः रूपादिरेव, तादृशगुणवत्त्वमेव-रूपादिविशेषगुण एव बहि. रिन्द्रियजन्यप्रत्यक्षसामान्यम्प्रति हेतुरस्तु । अत्र अात्मनो बहिरिन्द्रयप्रत्यक्षवारणाय "आत्मावृत्ति" इति । आकाशस्य बहिरिन्द्रियप्रत्यक्षवारणाय "शब्दभिन्ना"इति । कालादेस्तद्वारणाय "विशेष" इति ।
+ जरठः शङ्कते - "रूपस्य"-इति । लाघवम् शरीरकृतलाघवमित्यर्थः । नवीनः समाधत्ते-"न"-इति । तत्र हेतुमाह-“वायोस्त्वगिन्द्रियेण" इति । अग्रहणप्रसङ्गात् त्याचप्रत्यक्षाभावप्रसङ्गादित्यर्थः । अर्थात् यदि बाह्यद्रव्यप्रत्यक्षसामान्यप्रति रूपं कारणं तदा वायोस्त्वाचम्प्रत्यक्षं न भविष्यति । विशिष्य कार्यकारणभावकल्पने तु नैव दोषः । प्राचीन इष्टापत्त्या दोषाभावं स्वीकरोति—“इष्टापत्तिः"इति । अस्मन्मते स्पर्शेन=लिङ्गेन वायुरनुमेय एव न प्रत्यक्ष इति भावः ।
ॐ एषाम्-नवीनानाम् । +प्राचीनो नैयायिक इत्यर्थः ।
+ "लाघवम्" इति । चाक्षुषम्प्रत्यक्षम्प्रत्युद्भूतरूपत्वेन, स्पार्शनम्प्रत्युद्भूतस्पर्शत्वेन कारणत्वकल्पने तादृशान्यतरावच्छिन्नम्प्रति उद्भूतरूपत्वादिघटितान्यतरावच्छिन्नत्वस्य प्रयोजकत्व. कल्पने च गौरवात् , तादृशान्यतरत्वावच्छिन्नम्प्रति उद्धृतरूपत्वेन कारणतायां लाधवमित्यर्थः ।