________________
बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे प्राचामर्वाचाञ्च मतम् ।
यद्यालोकसंयोगः कारणं न स्यात्, तदान्धकारेऽपि घटादीनाञ्चाचुषप्रत्यक्षं स्यात्, उद्भूतरूपञ्चेत् कारणं न स्यात् तदा पिशाचादीनामपि प्रत्यक्षापत्तिरनिवार्या स्यादित्युभयमावश्यकमिति भाव: ॥ ५४, ५५ ॥
(का० ) उद्धृत स्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः । रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम् ॥ ५६ ॥
द्रव्याध्यचे
-
१७३
( मुक्का० ) उद्भूतस्पर्शत्रद्द्द्रव्यं त्वचो गोचरः । सोऽपि उद्भूतस्पर्शोऽपि स्पर्शत्वादिसहितः । रूपान्यदिति । रूपभिन्नं रूपत्वादिभिन्नं यच्चक्षुषो योग्यं तत् त्वगिन्द्रियस्यापि ग्राह्यम् । तथाच पृथक्त्वसङ्ख्यादयो ये चतुर्ग्राह्या गुणा उक्ला:, एवं क्रियाजातयो योग्यवृत्तयश्च ते त्वचा ग्राह्या इत्यर्थः । अत्रापि त्वगिन्द्रियजन्येऽपि रूपं द्रव्यप्रत्यक्षे कारणम् । तथाच बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपं कारणम् ।
(प्रभा०) चाक्षुषम्प्रत्यक्षं निरूप्य त्वाचं निरूपयति – “उद्भुत स्पर्शवत्"इति । "स्पर्शात्वादिसहित" - इति । उद्भूत स्पर्शः, स्पर्शत्वञ्जातिः, स्पर्शाद्यभावश्च त्वगिन्द्रियस्य गोचर इत्यर्थ: । " रूपभिन्नम् ” - इति । रूपभिन्नं रूपत्वभिन्नं रूपा - भावभिन्नं रूपत्वाभावभिन्नञ्चेत्यर्थः । यच्चचुषो योग्यं तत् । "तत्" - इति । तत्सर्वं पूर्वकारिकोक्कं त्वगिन्द्रियस्यापि विषयः । तदेव स्पष्टयति - " तथाच " - इति । अत्रापि =त्वाचे प्रत्यक्षेऽपि रूपं कारणम् । तदेव सङ्कलय्य दर्शयति - " तथाच"इति । " बहिन्द्रियजन्य" - इति । बहिरिन्द्रियजन्य यावन्मूर्त्तद्रव्यप्रत्यक्षत्वावच्छिन्नप्रति रूपं कारणम् । तथाचास्मिन्मते वायुगतस्पर्शस्य त्वाचप्रत्यक्षे सत्यपि वायुर्न प्रत्यक्षः, किन्त्वनुमेय * एवेति भावः ।
--
( मुहा० ) नवीनास्तु - बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे न रूपं कारणप्रमाणाभावात् । किन्तु चाक्षुषप्रत्यक्षे रूपम्, स्पार्शनप्रत्यक्षे स्पर्शः, कारणमन्वयव्यतिरेकात् । बहिरिन्द्रयजन्यद्रव्यप्रत्यक्षमात्रे किं कारणमिति चेन्न किञ्चित् । श्रात्मावृत्तिशब्दभिन्नविशेषगुणवत्त्वं वा प्रयोजकमस्तु । रूपस्य कारणत्वे लाघवमिति चेन्न, वायोस्त्वगिन्द्रियेणाग्रहणप्रसङ्गात् । इष्टापत्तिरिति चेत् ? उद्भूतस्पर्श एव लाघवात्कारणमस्तु । प्रभाया अप्रत्यक्षे त्विष्टापत्तिरेव किं नेष्यते । तस्मात् प्रभाम्पश्यामीति वत् वायुं स्पृशामीति प्रत्ययस्य सम्भवाद्वायोरपि प्रत्यक्षं सम्भवत्येव ।
* इत्थञ्च - "ज्ञेयः स्पर्शादिलिङ्गकः" इति, ""वायुर्हि स्पर्शशब्दधृतिकम्पैरनुमीयते " इति च ग्रन्थ एतन्मतानुरोधी ज्ञेयः ।