________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः
(का० ) * क्रिया जातिर्योग्यवृत्तिः समवायश्च तादृशः । गृह्णाति चक्षुः संयोगादालोकोद्भूतरूपयोः || ५५ ||
(मुला० ) योग्येति । पृथक्त्वादिकमपि योग्यवृत्तितया बोध्यम् । तादृशः योग्यव्यक्तिवृत्तिरित्यर्थः । चक्षुर्योग्यत्वमेव कथम् ? तदाहगृह्णातीति । श्रालोकसंयोग उद्भूतरूपञ्च चाक्षुषप्रत्यक्ष कारणम् । तत्र द्रव्यचाक्षुषम्प्रति तयोः समवायसम्बन्धेन कारणत्वम् । द्रव्यसमवेतरूपादिप्रत्यक्षे स्वाश्रयसमवायसम्बन्धेन द्रव्यसमवेतसमवेतस्य रूपत्वादेः प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेनेति ॥ ५५ ॥
१७२
1
7
( प्रभा० ) " ग्रीष्मोष्मादौ " - इत्यादिना चूर्णप्रविष्टतेजः परिग्रहः । " उद्भूतरूपवन्ति " - इति । नयनस्य गोचरा इति विभक्तिव्यत्ययेनान्वयः । गोचरशब्दोऽज-हल्लिङ्गः । “योग्यवृत्तितया " - इति । प्रत्यक्षयोग्यव्यक्तिवृत्तितयेत्यर्थः । तेन परमाण्वादिगतपृथक्त्वकसङ्ख्यादीनां न चातुषं प्रत्यक्षम् । उद्भूतरूपवद्द्रव्यम् पृथक्लम्, सङ्ख्या, विभागः संयोगः परत्वम्, अपरत्वम्, स्नेहः, द्रवत्वम् परिमाणम्, प्रत्यक्षयोग्या क्रिया जातिः तथा समवायश्चेति सर्वे चक्षुषो विषयाः । एतेषां चानुषं प्रत्यक्षमित्यर्थः । “आलोकसंयोग " - इति । सौराद्यालोकस्य संयोग: सन्निकर्षः, उद्भूतरूपञ्च एतद्द्वयं चाक्षुषप्रत्यक्षम्प्रति कारणं हेतुः एतदभावे द्रव्यप्रत्यक्षानुपपत्तेः । एतयोः कारणतावच्छेदकसम्बन्धं दर्शयति - " तत्र " - इत्यादिना । " द्रव्यचाक्षुषप्रति" - इति । घटपटादिद्रव्ययचानुषसाक्षात्कारम्प्रति । "समवायसम्बन्धेन " इति । तथाचात्र तयोः = श्रालोकसंयोगोद्भूतरूपयोः कारणतावच्छेदकसम्बन्धः समवायः, यतो घटालोकयोः संयोग उभयवृत्तिः, गुणगुणिनोश्व समवाय इति नियमः । एवम् - उद्भूतरूपमपि घटपटादिद्रव्ये समवायसम्बन्धेन वर्त्तते, विषयनिष्ठसाक्षात्कारप्रति समवायेनैव तयोर्हेतुतेति युक्तमुक्तम् " द्रव्यचाक्षुषम्प्रति" - इत्यादि । " द्रव्यसमवेतसमवेत" - इति । द्रव्ये = घटादौ समवेतं रूपम्, तत्र रूपत्वस्य समवायः, श्रतो द्रव्यसमवेतसमवेतं रूपत्वादि, तस्य रूपत्वादेः प्रत्यते । "स्वाश्रयसमवेत ” — इति । अत्र "स्व पदेन श्रालोकसंयोगः उद्भूतरूपञ्च गृह्यते, तयो - राश्रयः =अधिकरणं यद् घटादिद्रव्यम्, तत्र समवेतं रूपादिकम्, तत्र रूपत्वादेः समवायो वर्त्तते, जातिव्यवत्योः समवायाभ्युपगमात् । एवंविधपरम्परासम्बन्धेन रूपतत्त्वादिप्रत्यचे लोकसंयोगोद्भूतरूपयोः कारणभावो ज्ञेयः ।
"
[ प्रत्यक्षखण्डे
در
* क्वचित्कचित् "क्रियाअतिम्" इत्यादि द्वितीयान्तः पाठः । स न युक्तो भाति । तथासति "नयनस्य गोचर" इत्यनेनान्वयो नार्हति भवितुमिति । ननु – प्रथमान्तपाठेऽपि "गृह्णाति" पदेनान्वयो दुर्घट ? सत्यम् तत्र “एतान् पदार्थान्" इति पदद्वयाध्याहारे निराकाङ्क्षप्रतिपत्तिरस्त्येव ।