________________
प्रत्यक्षे विशेषविचार: ।
यत् किञ्चिच्छाब्दबोधव्यक्तिमादाय तद्व्यक्तिवृत्तिप्रत्यत्तासमवेतजातिमत्त्वं शाब्दबोधत्वं निर्वाच्यमित्यर्थ । स्पष्टमन्यत् ।
ननु -- ईश्वरप्रत्यचमपि सप्तमं कुतो नोक्तम् । तथाच -- -न्यूनता ग्रन्थस्येत्यत श्रह - - ' नत्र " - इत्यादिपूर्वपचोत्तरपत्तग्रन्थम् । “उक्तसूत्र” – इति । "इन्द्रियार्थ - सन्निकर्षोत्पन्नम्” – इत्यादिदर्शित सूत्रानुसारादित्यर्थः ॥ ५२ ॥
(क: ० ) घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः ।
तथा रसो रसाज्ञायास्तथा शब्दोऽपि च श्रुतेः || ५३ ||
(मुक्ता० ) गोचर इति ग्राह्य इत्यर्थः । गन्धत्वादिरिति । श्रादिपदात् सुरभित्वादिपरिग्रहः । गन्धस्य प्रत्यक्षत्वात् तद्वृत्तिजातिरपि प्रत्यक्षा । गन्धाश्रयग्रहणे तु घ्राणस्य न सामर्थ्यमिति बोध्यम् । तथा रस इति । रसत्वादिसहित इत्यर्थः । तथा शब्दोऽपि शब्दत्वादिसहितः । गन्धो रसश्च उद्भूतो बोध्यः ॥ ५३ ॥
१७१
I
(प्रभा०) सम्प्रति येषामिन्द्रियाणां यस्य विषयस्य ग्रहणे शक्तिः तत् पृथक पृथक् दर्शयति परममूले - " घ्राणस्य " - इति । मूले - " गोचर " - इति । गोचरो ग्राह्यो विषय इत्यनर्थान्तरमित्यर्थः । " सुरभित्वादि० " - इति । श्रादिना गन्धत्वव्याप्ये सुरभित्वा सुरभित्वे ग्राह्ये । एवं गन्धाभावोऽपि घ्राणेन्द्रियग्राह्यः । “येनेन्दियेण यद्गृह्यते तेनेन्द्रियेण तद्गुणस्तन्निष्ठा जातिस्तदभावश्च गृह्यते" इति नियमात् " गन्धाश्रये " - इति । गन्धाश्रयः पृथिवी तस्या ग्रहणे साक्षात्कारे घ्राणेन्द्रियस्य न शक्तिरित्यर्थः । द्रव्यसाक्षात्कारे चक्षुषस्त्वचश्च सामर्थ्य नत्वितरेषामिन्द्रियाणाम् तेषां योग्यविषयावभासकत्वनियमात् । रसज्ञायाः - रसनेन्द्रियस्य रसत्वादिसहितो - रसोऽपि गोचरः । श्रर्थात् रसो, रसत्वं जातिः, रसाभावश्चेति रसनेन्द्रियविषयाः । एवं श्रुतेः = श्रोत्रेन्द्रियस्य शब्द, शब्दत्वं जातिः शब्दाभावश्चेति विषया ज्ञेयाः । "उद्भूत" - इति । तथाच - श्रनुद्भूतस्य गन्धस्य रसस्य च नैव प्रत्यक्षं जायते इति भावः ।
(का० ) उद्भूतरूपं नयनस्य गोचरो
द्रव्याणि तद्वन्ति पृथक्त्वसङ्ख्ये ।
विभागसंयोगपरापरत्व --
स्नेहद्रवत्वम्परिमाणयुक्तम् ॥ ५४ ॥
(मुक्रा० ) ग्रीष्मोष्मादावनुद्भूतरूपमिति न तत्प्रत्यक्षम् । तद्वन्ति उद्भूतरूपवन्ति ॥ ५४ ॥