________________
१७०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
"तादृशज्ञानवृत्ति”-इति । समाधानग्रन्थस्याऽयमर्थ: । अत्र-तादृशज्ञानपदेन “व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यज्ञान रूपोऽर्थो बोध्यः । तथाच-व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं यदनुमित्यात्मकं ज्ञानम् , तस्मिन् वृत्तिर्वर्त्तनं यस्याः सा चासौ अनुभवत्वस्य व्याप्या जाति: । अर्थादनुमितित्वं तादृशजातिमत्त्वमेव प्रकृते “परामर्शजन्ये"त्यादिलक्षणवाक्येन विवक्षितम् । तेन 'धूमवान् पर्वतो वह्निमान्" इत्याकारायामनुमितौ "हेत्वविषयकत्व"रूपलक्षणांशस्याभावेऽपि अनुमितित्वजातिरूपविवक्षितधर्मसत्त्वान्न क्षतिः=नाऽव्याप्तिरित्यर्थः । . (मुक्ता०) अथवा व्याप्तिज्ञानकरणकं ज्ञानमनुमितिः। एवं सादृश्यशानकरणकं ज्ञानमुपमितिः । पदज्ञानकरणकं ज्ञानं शाब्दबोधः । ( वस्तुतस्तु–यां काञ्चिदनुमितिव्यक्तिमादाय तव्यक्तिवृत्तिप्रत्यक्षावृत्तिजातिमत्त्वमनुमितित्वम् । एवं यत्किश्चित्प्रत्यक्षादिकमादाय तद्यक्तिवृत्त्यनुमित्यवृत्तिजातिमत्त्वम्प्रत्यक्षादिकं वाच्यामिति)। जन्यप्रत्यक्षं विभजतेघ्राणजादीति । घ्राणजं रासनश्चानुषं स्पार्शनं श्रोत्रम्मानसमिति षड्विध. म्प्रत्यक्षम् । नचेश्वरप्रत्यक्षस्याविभजनान्न्यूनत्वम्, जन्यप्रत्यत्तस्यैव निरूपणीयत्वादुक्कसूत्रानुसारात् ।। ५२ ॥
(प्रभा०) शरीरकृतं लाघवमभिसन्धाय लक्षणान्तरं वक्तुमाह--"अथवा"इति । "व्याप्तिज्ञानकरणकम्" इति । व्याप्तिज्ञानम् अनुमानखण्डे वक्ष्यमाणम् । हेतुमनिष्ठात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यरूपाया व्याप्तेः प्रत्यक्षात्मकन्ज्ञानम् “यत्र यत्र धूमस्तत्र तत्र वह्निः" इत्याकारकं साध्यहेत्वोः साहचर्यरूपं यदस्ति तत् ज्ञानं करणम् व्यापारवदसाधारणं कारणं यस्य ज्ञानस्य तज्ज्ञानमनुमितिरित्यर्थः । "एवम्" इति । सादृश्यज्ञानं करणं यस्य तज्ज्ञानमुपमितिः, पदज्ञानं करणं यस्य तज्ज्ञानं शाब्दबांध इति लक्षणकरणे कुत्रापि न दोषः । एतच्चाने तत्र तत्र स्फुटीभविष्यति ।
ननु-अनुमित्यादिकम्प्रत्यपि न व्याप्तिज्ञानत्वादिना करणत्वम्, किन्तु मनस्त्वेनैव रूपेण कारणत्वमास्ताम् , अनुमित्यादिफलवैलक्षण्यञ्च सामग्रीभेदादेव भविष्यति । यथा प्रत्यक्षम्प्रति मनस्त्वेन करणत्वेऽपि चाक्षुषादिप्रमाभेदः चक्षुरादिसामग्रीनिबन्धनः । तथाच-दर्शितलक्षणानामसम्भवो दोष इत्यत: सिद्धान्तलक्षणमह-"वस्तुतस्तु"-इति । “यां काञ्चित्" इति । “पर्वतो वह्निमान्" इत्याधनुमितिव्यक्निमात्रं गृहीत्वेत्यर्थः । तस्यां व्यक्तौ वृत्तिर्यस्याः, प्रत्यक्षे च प्रवृत्ति:=न वृत्तिर्यस्या एवम्भूता या जातिः, अर्थात् अनुमितित्वमेव तादृशजातिमत्त्वमेव अनुमितिलक्षणम् । “एवम्"---इति । एवमेव प्रत्यक्षादिष्वपि लक्षणं घटनीयम् । “प्रत्यक्षत्वा. दिकम्” इति । यत्किञ्चिदुपमितिव्यक्तिवृत्तिप्रत्यक्षासमवेतजातिमत्त्वमुपमितित्वम् ।