________________
अनुमितिलक्षणम्, तत्राऽव्याप्तिशङ्कापरिहारश्च ।
नुत्पन्नम्" इत्यर्थः । श्रतिरिक्तञ्चात्र ज्ञानमेव । तच्च दर्शितरीत्या व्याप्तिज्ञानादिकमेवेति मौलमिदं लक्षणं नायुक्तमित्येतत्सर्वमभिप्रेत्य “अनुमितौ " -- इत्यारभ्य " इदं लक्षणमीश्वर प्रत्यक्ष साधारणम् " -- इत्यन्त मुक्तम् । "व्याप्तिज्ञानस्य " -- इत्यादि * षष्ठ्यन्तचतुष्टयस्य करणत्वादित्यनेनान्वयः ।
१६६
प्रत्यक्षप्रमां लक्षयित्वा अनुमितिं लक्षयति - " परामर्श " - इति । व्याप्तिविशिष्टपक्षधर्मताज्ञानम्परामर्शः । तादृशपरामर्शजन्यं ज्ञानमनुमितिः । भवति हि "वह्निव्याप्यधूमवानयम्पर्वतः " इत्याकारकं ज्ञानं व्याप्तिविशिष्टधर्मताज्ञानरूपम्, स एवं परामर्श इत्युच्यते, तज्जन्यम् " पर्वतो वह्निमान्" इत्याकारकं यज्ज्ञानं तदेवानुमितिरिति लक्षणसमन्वयः । अर्थात् उक्तपरामर्शरूपव्यापारद्वारा यस्य ज्ञानस्य व्याप्तिज्ञानञ्जनकम्, तादृशं यज्ज्ञानम् "पर्वतो वह्निमान्" इत्याद्याकारकं तदेवानुमितिरिति । एतच्च विस्तृतमग्रेऽनुमानखण्डे स्फुटीभविष्यति ।
अनुमितिलक्षणेऽतिव्याप्तिं शङ्कते - " यद्यपि " - इति । " परामर्शप्रत्यक्षादिकम् ' - इति । श्रादिना परामर्शध्वंसोऽपि । श्रयमर्थः - विषयविधया + परामर्शप्रत्यक्षम् परामर्शजन्यमेव । तथा - प्रतियोगिविधया च परामर्शध्वंसोऽपि परामर्शजन्य: स्वध्वंसप्रति स्वस्थ कारणत्वात् । एवम्परामर्शजन्ये परामर्शप्रत्यक्षे परामर्शध्वंसे च भवत्येव दर्शितानुमितिलक्षणस्याऽतिव्याप्तिः ।
समाधत्ते — “तथापि” – इति । " हेत्वविषयकम् " - इति । श्रयमर्थः - हेतुं यन्न विषयीकरोति तादृशं यद् " पर्वतो वह्निमान्" इत्याकारकं ज्ञानं तदेवानुमितिः । "वह्निव्याप्यधूमवानयम् पर्वत" इत्याकारके परामर्शज्ञाने धूमात्मको हेतुरपि भासते == विषयीभवति । तादृशज्ञानविषयके अनुव्यवसायात्मके परामर्शप्रत्यक्षेऽपि हेतुभानमावश्यकम् । ज्ञानेन यद् यद् विषयीक्रियते, ज्ञानज्ञानेनापि तदवश्यं विषयीक्रियत इति नियमसत्त्वात् । तथाच - विवक्षितप्रकारेण परामर्शप्रत्यक्षे नानुमितिलक्षणस्याऽतिव्याप्तिः । " पर्वतो वह्निमान्" इत्याकारकज्ञानस्य हेत्वविषयकत्वात्परामर्शजन्यत्वाच्च ।
ननु - “ धूमवान् पर्वतो वह्निमान्" इत्याकारके कदाचिज्जायमानेऽनुमितिज्ञाने धूमहेतुरपि + पचतावच्छेदकविधया भासते । तदेतज्ज्ञानमनुमितिरूपमपि हेत्वविषयकं नास्ति, किन्तु धूमात्मकहेतुविषयकमेवेत्यन्त्राऽव्याप्तिरेवोक लक्षणस्य \ इत्यारे का खण्डनाय "नच" इत्यारभ्य "विवक्षितत्वात्" इत्यन्तो ग्रन्थः ।
* षष्ठ्यन्तचतुष्टयं व्याप्तिज्ञानस्य, सादृश्यज्ञानस्य, पदज्ञानस्य, अनुभवस्येति पदचतुष्टयम् । + "वह्निव्याप्यधूमवन्तम्पर्वतम्पश्यामि " इति तत्प्रत्यक्षम् ।
+ पक्षनिष्ठविशेषणत्वेन रूपेण ।
$ आरेका = आशङ्का ।