________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
,
रूपेण, सुखादिसाक्षात्कारम्प्रत्येव मनस इन्द्रियत्वेन कारणता नत्वितरत्र तथा च-ज्ञानमात्रम्प्रति साधारणं कारणं मनः, चक्षुरादीनीन्द्रियाणि तु तत्तद्रूपादिज्ञानम्प्रत्यसाधारणकारणानि, श्रतोऽनुमित्यादौ कथमपि नातिव्याप्तिः ।
१६८
परे तु -- "इन्द्रियत्वेन " - - इति । इन्द्रियत्वव्याप्यघ्राणत्वादित्यर्थः । श्रन्ये तु -- सन्निकर्षषट्काम्यतमत्वेनेत्यर्थ इत्यनेकधा व्याचक्रुः । तदीयपरिष्कारप्रकारो बालमति - व्यामोहन भीत्योपेक्षितः ।
ननु-- ईश्वरप्रत्यक्षस्य इन्द्रियजन्यत्वाभावादव्याप्तिर्लक्षणदोष: ? श्रत श्राह -- "ईश्वरप्रत्यक्षन्तु न लक्ष्यम् " - - इति । जैत्रम् - जन्यम्प्रत्यक्षं लच्यमित्यर्थः । अत्र पारमर्षं सूत्रम्प्रमाणयति -- "इन्द्रियार्थसन्निकर्षोत्पन्नम् " -- इति । इन्द्रियस्य= 'चतुरादेः श्रर्थेन = घटादिना सन्निकर्षात् = संयोगादिषड्विधव्यापारात् उत्पन्नम् = यदुत्पद्यते • ज्ञानं तत् प्रत्यक्षम् । सूत्रे * भ्रमवारणाय + श्रव्यभिचारीत्युक्तम् । तच्च द्विविधम् । अव्यपदेश्यम् = निर्विकल्पम्, व्यवसायात्मकम् = सविकल्पमिति द्विविधम्प्रत्यक्षमित्यर्थ इत्यस्मिन् सूत्रे तथैवोक्तत्वात् == ईश्वरप्रत्यक्षाऽलक्ष्यत्वस्यैवाभिप्रेतत्वादित्यर्थः ।
(मुक्ता० ) अथवा ज्ञानाकरणकं ज्ञानम्प्रत्यक्षम् । अनुमितौ व्याप्तिज्ञानस्योपमितौ सादृश्यज्ञानस्य शाब्दबोधे पदज्ञानस्य स्मृतावनुभवस्य करणत्वात्तत्र तत्र नातिव्याप्तिः । इदं लक्षणमीश्वरप्रत्यक्ष साधारणम् । परामर्शजन्यं ज्ञानमनुमितिः । यद्यपि परामर्शप्रत्यक्षादिकम्परामर्शजन्यम्, तथापि परामर्शजन्यं हेत्वविषयकं यज्ज्ञानं तदेवानुमितिः । नच कादाचित्कहेतुविषय कानुमितावव्याप्तिरिति वाच्यम्, तादृशज्ञानवृत्त्यनुभवत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् ।
( प्रभा० ) यदि तु जीवेश्वरसाधारणम्प्रत्यत्तज्ञानं लच्यमभिप्रेतं तदा लक्षणान्तरं करणीयमित्याह -- " अथवा " - - इति । " ज्ञानाकरणकम् " -- इति । ज्ञानं न करणं यस्य तद् ज्ञानाकरणकम्, तादृशं ज्ञानम्प्रत्यक्षम् । “ज्ञान” पदेनात्र व्याप्ति. ज्ञानादेर्ग्रहणम् । तथाच - - श्रनुमितिस्प्रति व्याप्तिज्ञानम्, उपमितिम्प्रति सादृश्यज्ञानम्, शाब्दबोधम्प्रति पदज्ञानं करणम्, प्रत्यक्षम्प्रति किमपि ज्ञानं न करणम् । एवं ज्ञानाकरणकं ज्ञानम्प्रत्यत्तमिति जीवेश्वरसाधारणमनुमित्यादावतिव्याप्तिशून्यञ्चेति निर्दुष्टमिदम्प्रत्यचप्रमालचणम् ।
ननु -- कपोलकल्पितमिदं लक्षणं न सौत्रमिति चेत् ? भ्रान्तोसि -- सूत्रस्थमिन्द्रियार्थसन्निकर्षोत्पन्नमितिपदं सावधारणम्, तेनाऽस्य " इन्द्रियार्थसन्निकर्षातिरिक्ता
* " शुक्तौ इदं रजतम्" इति जायमानं ज्ञानमपि इन्द्रियार्थसन्निकर्षोत्पन्नम्, अतस्तत्राऽतिव्याप्तिवारणायेत्यर्थः । तथाच भ्रमभिन्नमिति फलितम् ।
+ संवादिप्रवृत्तिजनकमित्यर्थः ।