________________
प्रमाणविभागः, प्रत्यक्षलक्षणञ्च ।
न्यायैकदेशिनोऽप्येवमुपमानञ्च केचन श्रर्थापत्या सहैतानि चत्वार्याह प्रभाकरः || प्रभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा । सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः ॥ ५१ ॥
(का० ) प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे । प्राणजादिप्रभेदेन प्रत्यक्षं षड्विधम्मतम् ||५२ ||
( मुक्ता० ) इन्द्रियजन्यं ज्ञानम्प्रत्यक्षम् । यद्यपि मनोरूपेन्द्रियजन्यं सर्वमेव ज्ञानम्, तथापीन्द्रियत्वेन रूपेणेन्द्रियाणां यत्र ज्ञाने कारणत्वं तत्प्रत्यक्षमिति विवक्षितम् । ईश्वरप्रत्यक्षन्तु न लक्ष्यम् । “ इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकम्प्रत्यक्षम् ” ( न्या० १ । १ । ४ ) इति सूत्रे तथैवोक्तत्वात् ।
( प्रभा० ) परमम्ले -- " प्रत्यक्षमनुमितिः " - इति । प्रतिगतमक्षम्प्रत्यक्षम् = `प्रतिगमकम्, इन्द्रियमिति व्युत्पत्या व्युत्पन्नः प्रत्यक्षशब्दः प्रत्यक्षप्रमाकरणमिन्द्रियम्बोधयति तादृशेन्द्रियजन्यं ज्ञानम्प्रत्यक्षप्रमारूपाऽनुभूतिरित्यर्थः । एवमनुमीयते ऽनेनेत्यनुमानमनुमितिकरणम्, तज्जन्यं ज्ञानमनुमितिप्रमारूपा द्वितीयानुभूतिः । उपमीयतेऽनेनेति उपमानमुपमितिकरणम्, तज्जन्यं ज्ञानमुपमितिप्रमारूपा तृतीयानुभूतिः । शब्द्यते = प्रतिपद्यतेऽर्थोऽनेनेति शब्दः शाब्दीप्रमाकरणम्, तज्जन्यं ज्ञानं शब्दजा=शाब्दी प्रमारूपा चतुर्थी अनुभूतिरित्यर्थः । एवञ्चतुर्विधानामनुभूतीनां करणान्यपि चतुर्विधान्येवेति महर्षिगोतमसम्मतोऽयम्पत इति सिद्धम् ।
१६७
उद्दिष्टासु प्रमासु प्रथमोपस्थितम्प्रत्यक्षं ( प्रत्यक्षप्रमां) लक्षयति मुक्तावल्याम्-"इन्द्रियजन्यम् " -- इति । इन्द्रियजन्यमिन्द्रियरूपादावप्यस्ति चक्षुरादीन्द्रियगतरूपादेश्चक्षुरादीन्द्रियजन्यत्वात् श्रतस्तन्नातिव्याप्तिः स्यात्, तां वारयितुम् "ज्ञानम्” इत्युक्तम् । यदि "ज्ञानम्प्रत्यक्षम्" इत्येतावदेव उच्येत तदा अनुमित्यादिप्रमासु प्रतिव्याप्तिः स्यादत “इन्द्रियजन्यम्" इत्युपात्तम् ।
तथाकृतेऽपि लक्षणेऽनुमित्यादावतिव्याप्तिस्तदवस्यैव सर्वस्यानुमित्यादिज्ञानस्य मनोरूपेणेन्द्रियेणापि जन्यत्वादित्याशयवान्छङ्कते -- " यद्यपि " - - इति । " सर्वमेव ज्ञानम्”--इति । जन्यज्ञानसामान्यमित्यर्थः । समाधत्ते --" तथापि ”— इति ।
श्रयमाशयः - - इन्द्रियत्वेन रूपेण “शब्देत रोद्भूतविशेषगुणानाश्रयत्वे सति” इत्याद्य इन्द्रियलक्षणं निरूपयिष्यते, तल्लक्षणलक्षितेनेन्द्रियत्वेन रूपेण यस्मिन् ज्ञाने इन्द्रियाणां करणता, तादृशं ज्ञानम्प्रत्यक्षमित्यभिप्रेतम् । मनसस्तु मनस्त्वेन रूपेण ज्ञानमात्रम्प्रति= श्रनुमित्यादिसकलसाधारणज्ञानम्प्रति करणता नत्विन्द्रियत्वेन