________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठाताऽनुमीयते प्राणादिभिश्च" इति बहूक्तम् । तसादाधुनिकाः स्वयम्प्रतिभातशास्त्रा न्यायमुक्तावली कपोलकल्पितां वदन्तः स्वयमेव तथा वेदितव्याः।
बुद्धयादीति गुणवानिति--बुद्धिसुखदुःखेच्छादयश्चतुर्दशगुणाः पूर्वोक्ताः वेदितव्याः । “बुद्धयादि"--इति । स्पष्टम् ।
इति प्रभासहितायां न्यायमुक्तावल्यामात्मस्वरूपनिरूपणा नाम
तृतीया मुक्ता।
- (का०) बुद्धिस्तु द्विविधा मता।
... अनुभूतिः स्मृतिश्च स्वादनुभूतिश्चतुर्विधा ॥५१॥
(मुक्का०) अत्रैव प्रसङ्गाद् बुद्धेः कतिपयं * प्रपञ्चं दर्शयति--- बुद्धिस्त्विति । द्वैविध्यं व्युत्पादयति । अनुभूतिरिति । अनुभूतिश्चतु. विधेति । एतासाञ्चतसृणां कारणानि चत्वारि "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" (१।१।३) इति सूत्रोक्तानि वेदितव्यानि ॥५१॥
(प्रभा०) आत्मनिरूपणानन्तरम्मनोद्रव्यनिरूपणे प्राप्ते तद्विहाय बुद्धि (गुण)निरूपणप्रयोजनमाह-"अत्रैव प्रसङ्गाद"--इति । स्मृतस्योपेक्षानहत्वरूपप्रसङ्गसङ्गतिवशादित्यर्थः । अनुभूतेश्चातुर्विध्ये महर्षिमूलम्मानयन्नाह--"सूत्रोक्तानि"--इति । - अयम्भावः--प्रत्यक्षास्मिकैवानुभूतिरिति चार्वाकाः । अनुमितिरपीति कणादसुगतौ । उपमितिरपीति साङ्ख्याः । अर्थापत्तिरपीति प्राभाकराः । अनुपलब्धिरपीति भाट्टा वेदान्तिनश्च । सम्भवैतिझे अपीति पौराणिकाद्याः। तत्सर्वमयुक्तमिति सूचयितुमनुभूतेश्चातुर्विध्यमुक्तं न्यायशास्त्रप्रवर्तकगोतममुनिसूत्रञ्च प्रमाणत्वेनोद्धृतम् । “प्रत्यक्षानुमान"--इति । इदं सूत्रम्प्रथमाध्याये प्रथमाह्निकस्य तृतीयम् । प्रमाण चतुष्टयेषु अधिकानामन्तर्भावः न्यूनसङ्ख्यायाञ्च निर्वाहानुपपत्तिरिति बोध्यम् । एतच्चाने १४० कारिकाव्याख्यायां स्फुटीकरिष्यामः । उक्तञ्च तार्किकरक्षायाम्---
प्रत्यक्षमेकन्चार्वाकाः कणादसुगतौ पुनः ।
अनुमानन्च । तच्चाथ साङ्ख्याः शब्दम्च ते अपि ॥
अत्र-प्रपञ्चशब्दो धर्मपरः, कतिपयशब्दश्च ईषत्परः तस्याऽभेदेन धौ अन्वयः, तस्य धात्वर्थेऽन्वयः । तथाच--बुद्धिविशष्यकेषदभिन्नावान्तरधर्मप्रकारकज्ञानजनकशब्दाऽनुकूल. कृतिमानिति बोध इति प्राचीना प्रभा। तत्-प्रत्यक्षमित्यर्थः ।