________________
न्यायमतसिद्ध आत्मा ।
वच्छेदकतया प्रयत्नस्य समवायेनाश्रय पात्मैवेति भावः । "ज्ञानेच्छादीनाम्"-- इति । “उक्तप्रायत्वात्"--इति । “शरीरस्य न चैतन्यम्मृतेषु व्यभिचारत" इत्यादिना ग्रन्थेन ज्ञानाभावस्य उक्तत्वात् इच्छादीनामभावस्य कण्ठतोऽनुक्तेश्च प्रायपदम् । “प्रयत्नवानात्मा"--इति । तथाच--"इदम्परकीयशरीरमवच्छेदकतासम्बन्धेन प्रयत्नवत् चेष्टावत्त्वात् मच्छरीरवत्" इत्येवमनुमानेन प्रयत्नसिद्धी तदाश्रयतया परात्मा सिद्धयतीति भावः । दृष्टान्तासिद्धिमाशङ्कय निराकरोति--"यद्यपि"--इति । "हिताहितप्राप्तिपरिहारानुकूलक्रिया चेष्टा" इति चेष्टाया लक्षणम् । सा च जडे रथादौ नार्हति भवितुम् , तथापि रथव्यापारेण यथा सारथेरनुमानं तथैव प्रयत्नजनितेन चेष्टात्मकेन कर्मणा परदेहस्थोऽप्यनुमातुं शक्यते। तथाचोत्तरदेशसंयोगयोग्यक्रियावत्वमेव "प्रवृत्तिमत्त्व"हेतुना विवक्षितमिति भावः ।
___ "अहङ्कारस्य"--इति । तथाच अात्मन एव कर्तृत्वात् अहमितिशब्दबोध्योप्यात्मैवेति भावः । उक्तमेवार्थ स्फुटयति--"न शरीरादिः"--इति । “मनोभिन्ने०"--इति । तादृशप्रत्यक्षनिरूपितलौकिकविषयताशून्य इत्यर्थः । “मानसप्रत्यक्ष"--इति । मानसत्वाऽवच्छिन्नलौकिकविषयतावानित्यर्थः। श्रात्मनो मनोमात्रजन्यज्ञानविषयत्वे कारणमाह--"रूपाद्यभावेन"--इति ॥१०॥
(क) विभुर्बुद्धयादिगुणवान्(मुक्का०) विभुत्वम्परममहत्त्वम् । तच्च पूर्वोक्तमपि स्पष्टार्थमुक्तम् ।
(प्रभा०) “परममहत्त्वम्" इति । “कालखात्मदिशां सर्वगतत्वम्परम महत्" इति २६ कारिकायां तथा “बुद्धयादिषट्कम्" इति कारिकायामुक्तमपि । तच्च-परममहत्त्वञ्चेत्यर्थः । तथाचात्मनि परममहत्वोपस्थितिं विना उक्तशङ्काया अपरिहारात् झटिति तदुपस्थित्यर्थम्पुनः कथनमिति भावः ।
अत्रेदम्बोध्यम्-सर्वोऽयमात्मग्रन्थो न्यायाचार्यविश्वनाथेन सिद्धान्तरीत्या यथा प्रणीतस्तथैवार्षग्रन्थेषूपलभ्यते । तथाहि
प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः * सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि ॥
(वै० अ०३ । प्रा० २ | सू० ४) प्रशस्तपादसङ्ग्रहेऽपि--'आत्मत्वाभिसम्बन्धादात्मा"-इत्यायभिधाय शरीरसमवायिनीभ्यां हिताहितप्राप्तिपरिहारयोग्याभ्याम्प्रवृत्तिनिवृत्तिभ्यां रथकर्मणा
* "सुखदुःखेच्छा' - इति । यस्तावत् गुणः स द्रव्याश्रितो दृष्टः, यथा रूपम् । सुखदु:खादयोऽपि गुणाः तैरपि क्वचिदाश्रितर्भाव्यम् , नचैतेऽयावद्र्व्यभाविनोऽहम्प्रत्ययसमाना. धिकरणाः बाह्येन्द्रियाऽप्रत्यक्षाः सन्तः पृधिम्यादीनि द्रव्याणि कथञ्चिदप्याश्रयितुम्पारयन्ते, द्रव्येण च केनचित्तदाश्रयेण भाव्यम् , अतो यद् द्रव्यं सुस्वादीनामाश्रयः स एवात्मेति भावः ।