________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे (का०) धर्माधर्माश्रयाध्यक्षो विशेषगुणयोगतः ॥४६॥
(मुक्का०) धर्माधर्माश्रय इति । आत्मेत्यनुषज्यते । शरीरस्य तदा श्रयत्वे देहान्तरकृतकर्मणां देहान्तरेण भोगानुपपत्तेः । विशेषगुणयोगत इति । योग्यविशेषगुणस्य ज्ञानसुखादेः सम्बन्धेनात्मनः प्रत्यक्षत्वं सम्भवति न त्वन्यथा, अहाने अहङ्करोमीत्यादिप्रतीतेः ॥४६॥
(प्रभा०) "धर्माधर्माश्रय इति" इति । अयमात्मा धर्माधर्मयोराश्रयः समवायेनाधिकरणम्, शरीरमेव कुतो नाश्रयो धर्मादेरित्याक्षेपसम्भावनयाऽऽह"शरीरस्य"--इति । तदाश्रयत्वे धर्माऽधर्माश्रयत्वे । देहान्तरकर्मणाम् देहान्तरे कृतानि कर्माणि यैरिति समासेन देहान्तराऽवच्छेद्यकर्मविषयकसफलयनवतामित्यर्थः । देहान्तरेण देहान्तरावच्छेदेन । “भोगानुपपत्तेः" इति । सुखदुःखाऽनुभवानुपपत्तेरित्यर्थः । तथाच कृतविप्रणाशःकृताभ्यागमप्रसङ्गोऽनिवार्यः स्यात् । तदेतत् “शरीरदाहे पातकाभावात्" (न्या० ३ । १ । ४) इति सूत्रभाष्ये बहु स्पष्टमिति गौरवभयानेह प्रपञ्चितम् । “अहाने"-इत्यात्मनो मानसप्रत्यक्षे हेतुरुक्तः । “विशेष"--इति । अध्यतः प्रत्यक्षः । अर्थात् अहं सुखीत्याद्याकारकयोग्यविशेषगुणप्रकारेणैव प्रात्मप्रत्यक्षस्याऽनुभवसिद्धत्वम्बोध्यम् ॥ ४६ ।।
(का०) प्रवृत्यायनुमेयोऽयं रथगत्येव सारथिः ।
___ अहङ्कारस्याश्रयोऽयम्मनोमात्रस्य गोचरः ॥५०॥
(मुक्ता०) अयमात्मा परदेहादौ प्रवृत्त्यादिनाऽनुमीयते । प्रवृत्तिरत्र चेष्टा । ज्ञानेच्छाप्रयत्नादीनां देहेऽभावस्योक्तप्रायत्वाचेष्टायाश्च प्रयत्नसाध्यत्वाच्चेष्टया प्रयत्नवानात्माप्यनुमीयत इति भावः । अत्र दृष्टान्तमाह-रथेति । यद्यपि रथकर्मचेष्टा न भवति । तथापि तेन कर्मणा सारथिर्यथाऽनुमीयते तथा चेष्टात्मकेन कर्मणा परात्मापीति भावः । अहङ्कारस्येति अहङ्कारोऽहमिति प्रत्ययस्तस्याश्रयो विषयः प्रात्मा न शरीरादिरिति । मन इति । मनोभिन्नेन्द्रियजन्यप्रत्यक्षाविषयो मानसप्रत्यक्षविषयश्चेत्यर्थः । रूपाद्यभावेनेन्द्रियान्तरायोग्यत्वात् ॥५०॥
(प्रभा०) यद्यप्यात्मा प्रत्यात्मम्प्रत्यक्षः तथापि परस्य परदेहादौ न तथेति तत्र तस्यानुमानेन ज्ञानं कर्तुं सुशकमित्याह-"अयमात्मा"--इति । परदेहादौ परकीयशरीरादौ । प्रादिना वीणादिपरिग्रह इति प्राचीना प्रभा । परकीयप्रयवृत्यादेरतीन्द्रियत्वेन हेतुज्ञानासम्भवात् स्वरूपासिद्धिहेतुदोषः स्यादित्याह--"प्रवृत्तिरत्र"इति । एतद्वाक्यघटकप्रवृत्तिपदलच्यार्थश्चेष्टा इत्यर्थः । तथाच-चैत्रशरीरश्चेतनाधिष्ठितम्प्रवृत्तिमत्त्वात् रथवत्" इत्यनुमानम्फलितम् । शरीरे समवायेन चेष्टानुमितस्याऽ.