________________
साङ्ख्यमतनिरासः ।
नादित्वमिति । श्रनादेरित्यस्य भावस्येति शेषः । जन्यभावत्वस्य नाशे कारणत्वमिति भावः । " तत्किम् ” – इति । मूलप्रकृत्यादिकल्पनेन किम्प्रयोजनमित्यर्थः । तस्मात् प्रकृत्यादिकल्पना मुधैव साङ्ख्यानाम्पुरुषस्यैव कर्तृत्वात् । कृत्यादीनाञ्चैतन्यसामानाधिकरण्यस्य युक्तिसिद्धतया साङ्ख्यप्रक्रिया नैवादरार्हेति भावः ।
१६३
"
( मुक्ता० ) नच - " प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । श्रहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥ (गीता० श्र० ३ श्लो० २७) इत्यनेन विरोध इति वाच्यम्, प्रकृतेरदृष्टस्य गुणैरदृष्टजन्यैरिच्छादिभिः कर्त्ताहमेवेत्यस्य तदर्थत्वात् । " तत्रैवं सति कर्त्तारमात्मानं केवलन्तु यः " इत्यादि वदता भगवता प्रकटीकृतोऽयमुपरिष्टादाशय इति सङ्क्षेपः ।
"
( प्रभा० ) पुनराशङ्कय साङ्ख्यमतन्निरस्यति सिद्धान्ती - "नच " - इत्यादिना । प्रकृतिः=प्रधानं सत्वरजस्तमसां साम्यावस्थेति यावत् । तस्याः = गुणैः =सत्त्वादिलक्षणैः क्रियमाणानि=अनुष्ठीयमानानि कर्माणि - शुभाशुभलक्षणाः क्रियाः सन्तीति शेषः । अहङ्कारोऽहमिति प्रत्ययः महतः कार्यभूतः तेन विमूढ आत्मा अन्तःकरणं यस्य तथाविध: पुरुष: अर्थात् ग्रहमितिप्रत्ययविषयान्तःकरण । गृहीतासंसर्गकः श्रहङ्कतैति मन्यते इति भगवदाशय इत्याशयेन सह विरोधस्तव नैयायिकस्य पुरुषनिष्ठकर्त्तृत्ववादिना इति साङ्ख्यस्य पूर्वपक्ष: । श्रस्योत्तरमर्थान्तरयोजनया सिद्धान्ती दर्शयति“प्रकृतेः " - इति । नहि प्रकृतिपदम्भवदभिमतप्रधानपरकम्, किन्तु जीवादृष्टपरकम् । तेन स्वतन्त्रकर्तृत्वाभाव एव प्रतिपाद्यते नतु कर्तृत्वसामान्याभाव इति भावः तदर्थत्वात्= गीतार्थत्वात् । " अहमेव " - तथाच य: श्रदृष्टादिनिरपेक्षं केवलमात्मानं कर्त्तारम्मन्यते स एव मूढ इति भगवदभिप्राय: । अत्रैव किं गमकमित्युत्तरं गीता - वचनमेव प्रमाणमाह—“तत्रैवम्” – इति ।
I
श्रधिष्ठानन्तथा कर्त्ता करणञ्च पृथग्विधम् ।
विविधाश्च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमम् ॥ इति ।
इति पञ्चानामेव कर्त्तृत्वमुपपाद्य " तत्रैवम् " - इत्यादिना स्वतन्त्रकर्त्तृत्वस्यैव निषेधः कृतो भगवता । “सङ्क्षेप " - इति । यत्तु कार्यकारणयोरभेद इत्युक्तन्तदपि न पूर्वापरभावादिभेदेन तद्भेदसिद्धेरित्याद्यधिकं विस्तर भीत्या नोक्तमित्यर्थः ।
इति साङ्ख्यमतखण्डनम् ।
* अत्र भावरूपशेषाऽभिधानात् प्रागभावव्यावृत्तिरित्याशयः । + कार्यकारणयोर्भेद सिद्धेरित्यर्थः ।