________________
१६२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे नयायिक उत्तरयति-"कृत्यंश"- इति । यदि चैतन्यांशे भ्रमम्मन्यसे तयैव युक्त्या कृत्यंशेऽपि भ्रमो मन्यताम् ? अर्थात् यथा चैतन्यम्पुरुषनिष्ठमपि बुद्धावरोपितम्, एवं कृतिरपि पुरुषनिष्ठा सती बुद्धी भ्रमेण भासते, वस्तुतोऽसौ पुरुषधर्म एवेत्यपि स्वीक्रियताम् । तथाच तवानुमानबाधकमनुमानम्-'बुद्धिः कर्तृत्वाभाववती जन्यधर्माश्रयत्वात्” इति जानीहि । "अन्यथा” इति । कर्तृचेतनयोर्भेदाङ्गीकारे । पृच्छामो वयं यत् बुद्धिर्नित्या अनित्या वा ? इत्याद्यपक्षमाश्रित्याह-"बुद्धनित्यत्व"- इति । मोक्षाभावः सर्वदेव बुद्धिपुरुषयोः सम्बन्धात्कस्यापि कदापि मुक्तिर्न स्यात् । द्वितीये दोषमाह-"तत्पूर्वम्" इति । बुद्धेस्त्पत्तेः प्रथमत: असंसारापत्तिः संसारो न भवेत् । सादिः संसार: स्यादित्यर्थः । ततश्च कृतनाशाs. कृताभ्यागमप्रसङ्गो भवेदित्याशयः ।
अस्यायमाशयः-तव मते चेतने सुखदुःखयोरभावस्तत्र बन्धमोक्षव्यवहारः सर्वथाऽसम्भवी, तस्मादसौ बुद्धिसत्त्वासत्त्वहेतुक एव मन्तव्यः, तद्यदि बुद्धिनित्या तदा तद्धेतुकसंसारस्य सदातनत्वापत्ती मोक्षाभावः। यद्यनित्या तदा तु उत्पत्तेः पूर्वम्बुद्धेरभावात्संसारोत्पत्तिरेव न स्यात्, अर्थात् बुद्ध्युत्पत्तेः पूर्वं संसारोत्पत्तिनिमित्तमदृष्टमेव न भविष्यति, तदभावे च कुतो बुद्धेरुत्पत्तिः, बुद्वयनुत्पत्तौ च कथं संसार इति । एवं सति संसाराभावे सर्वथा साङ्ख्यो निरुत्तरः ।
पुनः शङ्कते स एव-"ननु"-इति । अचेतनाया:-जडाया: प्रकृतेः प्रधानस्य कार्यत्वात् बुद्धेरचैतन्यम्=चेतनताया अभावः । अन्न हेतुमाह-"कार्यकारणयोस्तादात्म्यात्' इति ।
सिद्धान्ती खण्डयति-"न"- इति । "असिद्धः” इति । बुद्धिः प्रकृतिकार्यमित्यस्यासिद्धेरित्यर्थः । केचित्तु-असिद्धेः मूलप्रकृतेरेवाऽसिद्धेः मूलप्रकृतौ प्रमाणाभावादिति भाव इति व्याचक्षते । "कर्तुः"- इति । "यः य: कर्ता स सः सर्वोऽपि जन्य एवे"त्यत्रापि प्रमाणाभावो यतः । कर्तृत्वस्य जन्यत्वेऽनुकूलतर्काभावादिति भावः । प्रत्युत तद्विपरीतानादित्वग्राहकतर्कसत्त्वादनादिरेव कर्ता इत्याह"वीतराग"-इति । न्यायदर्शनस्य तृतीयेऽध्याये प्रथमे आह्निके पञ्चविंशतितमं सूत्रमिदम् । सरागो जायत इति सूत्रस्यार्थार्थः । “अनादित्वम्" इति । अयमर्थः-स्तन्यपाने या बालस्य प्रवृत्तिः सा इष्टसाधनताज्ञानं विना न भवति, तच्च नानुभवरूपम्बाधात्, किन्तु स्मरणरूपम् , तच्च संस्कारापेक्षम् , संस्काराश्चानुभवसापेक्षा:, अनुभवश्च अनुभवितारमन्तरा नोपपद्यते, ततश्च पूर्वजन्मसिद्धिः । ततोऽपि पूर्वप्रवृत्त्यनुरोधेन पूर्वम्पूर्वञ्जन्म सिद्धयतीति जन्मप्रवाहस्यानादित्वे सुतराम्पुरुषस्याऽ.
® वीतरागो रागशून्यस्तावन्नोत्पद्यते, अपितु सरागः । तत्र च जन्मान्तरीयेष्टसाधनताशानाधीनस्मरणं हेतुरिति निगूढाशयः ।