________________
साङ्ख्यमतनिरासः ।
ननु-चैतन्यं यदि बुद्धर्धर्मो व्यर्थस्तर्हि चेतनात्मकपुरुषस्वीकार इतीमां शङ्काम्परिहरन्नाह--"नव"--इति । अर्थात् कृतिस्तु बुद्धेरेव धर्मः, साच परिणमनस्वभावा । न चेतना-पुरुषो नेत्यर्थः । अत एवाऽनित्येत्याशयवान् “नच" इत्यादिग्रन्थः । “इतिसाङ्ख्यम्" इति । उक्तवच्यमाणयुक्त्या खण्डितमित्यर्थ इति नैयायिकः समाधातुमाह । “कृत्यदृष्टभोगानाम्" इति । कृतिः प्रयत्नः । अदृष्टम्= धर्माधौं । भोगः सुखदुःखान्यतरसाक्षात्कारः । एते-कृत्यादयः यस्मिन्नधिकरणे प्रतीयन्ते तत्रैव चैतन्यस्यापि प्रतीतिः, अर्थात् कृतिः स्वसमानाधिकरणमेवादृष्टअनयति, अदृष्टं स्वसमानाधिकरणमेव भोगञ्जनयति इति कृत्यदृष्टभोगानाम्परम्परया सामानाधिकरण्यम्=एकाधिकरणवृत्तित्वम् तत्प्रतीतिवत् "चेतनोऽहङ्करोमि" इति प्रतीतिरपि एकाधिकरणवृत्तित्वसम्बन्धेनैव ज्ञेया। तस्माच्चैतन्यम्पुरुषस्वभावः कृत्यादयो बुद्धेरेवेति साङ्ख्यमतमसङ्गतमेव । "तद्भिन्न"- इति । कर्त्तमिन्ने चेतने मानाभावात् नैव प्रमाणम्पश्यामो यत इत्यर्थः । उनञ्च कुसुमाञ्जलावाचार्यैः
8 कर्तृधर्मा नियन्तारश्चेतिता च स एव नः ।
अन्यथानपवर्गः स्यादसंसारोऽथवा ध्रुव: ॥ इति । (मुक्ता०) चेतनोऽहं करोमीति प्रतीतिश्चैतन्यांशे भ्रम इति चेत् कृत्यंशे किं नेष्यते । अन्यथा बुद्धेर्नित्यत्वे मोक्षाभावोऽनित्यत्वे तत्पूर्वमसंसारापत्तिः । नन्वचेतनायाः प्रकृतेः कार्यत्वाद् बुद्धेरचैतन्यं कार्यकारणयोस्तादात्म्यादिति चेन्न, असिद्धेः । कर्तुर्जन्यत्वे मानाभावात् । वीतरागजन्मादर्शनादनादित्वम् । अनादेर्नाशासम्भवान्नित्यत्वम् । तकि प्रकृत्यादिकल्पनेन ।
(प्रमा०) साङ्ख्यः शङ्कते, नैयायिकश्च प्रतिक्षिपति-"चेतनोहऽम्"इत्यादिना । उक्ताकारा प्रतीतिः प्रत्ययः चैतन्यांश-ज्ञानस्वरूपांशे भ्रमः इत्यर्थः इति चेत् हे ! साङ्ख्य ! ब्रूषे तर्हि कृत्यंशे प्रयत्नांशे अपि भ्रम एव किम्=कुतः नेष्यते न मन्यते भवता ।
अयमभिप्रायः-स्वभावतो जडापि बुद्धिः चेतनपुरुषसम्बन्धात् तत्प्रति. बिम्बोग्राहिणी भूत्वा स्वस्यां मिथ्र्यवाभिमानं धत्ते चेतनोऽहङ्करोमीति तस्माच्चैतन्यम्= ज्ञानं न कृत्यादिसमानाधिकरणकमिति साङ्ख्याशयः ।
* कर्तधर्माः कृतिसमानाधिकरणास्तावद्धर्माऽधर्मेच्छाद्वेषाद्याः नियन्तार: भोगस्य कृतिसामानाधिकरण्यगमका एते । एवं य: चेतिता=चेतनः स एव न:-अस्माकं मते कृतिमान् अर्थात् कृतिमानव चेतनः, अत एव चेतनोऽहं करोमीति प्रत्ययः । विपक्षे दूषणमाह--"अन्यथा''-- इति । स्पष्टम् , टीकायां व्याख्यातप्रायश्चैतत् ।