________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
"कृदभिहितो भावो द्रव्यवत्प्रकाशते " इति न्यायात् भिद्यतेऽनेनेति व्युत्पत्त्या भेदशब्दस्य वैलक्षण्यार्थकत्वात् " श्रयं घटः, श्रयम्पटः" इत्याकारप्रतीतिरेव विवक्षिता । तथाच - बुद्धौ घटाद्याकारकज्ञानपरिणामितैव विषयसम्बन्ध इति भावः । श्रयमेव ज्ञानमुपलब्धिर्वृत्तिरिति चोच्यते इति द्वितीयांश: ।
१६०
" कर्त्तव्यमिति” – इति । पूर्वोक्तपुरुषोपरागविषयोपरागाभ्यां कर्त्तव्यस्य= घटादेरवभासः । तेन “कर्त्तव्यम्" इति निश्चयात्मकोऽध्यवसायो व्यापारांश इत्यर्थः । इति तृतीयांश: । अत्रापि बुद्धया सह घटादेर्विषयस्य संयोगादिसम्बन्धाऽसम्भवात् कर्त्तव्यत्वाकारिज्ञानपरिणामित्वमेव बुद्धौ कर्त्तव्यतासम्बन्ध इति तु न विस्मर्त्तव्यम् ।
" तेन " - इति । बुद्धेर्ममेदं कर्त्तव्यमित्याकारकत्वेनेत्यर्थः । इत्थमंशन्नयवती पुरुषसम्बन्ध-विषयसम्बन्धं व्यापारसम्बन्धरूपांशत्रयवती बुद्धि: । तत्परिणामेन = ज्ञानेन वृत्तिरूपेण । पुरुषस्य = निरतिशयचैतन्यस्वभावस्य । तात्त्विकः = आरोपित: " चेतनोऽहङ्करोमि, चेतनोऽहञ्जानामि इत्याकारकः पुरुषे ज्ञानपरिणामिबुद्धितादात्म्यभ्रमरूपः सम्बन्धः । वस्तुतः पुरुषस्य असङ्गत्वात् । सोऽयमतात्त्विकः सम्बन्ध एव दर्पणस्य मलिनिम्नेव मुखस्य उपलब्धिरिति ख्यायते साङ्ख्ये कृतान्ते, नतु बुद्धिरेवोपलब्धिरिति न्यायदर्शनं युज्यत इति भावः 1 तात्त्विकभावे दृष्टान्तः-““दर्पणस्य”-- इति ।
"
तथा च " चेतनोऽहञ्जानामि इत्याकारो बुद्धावारोपितस्य यः सम्बन्धोऽतात्त्विकः स उपलब्धिः नतु बुद्धिरेवोपलब्धिरिति, उच्यते - कथ्यते साङ्ख्य मते इति परः सारः । “ज्ञानवत” – इति । श्रस्यायमर्थः - ज्ञानम् = वृत्तिरूपम् यथा “ श्रयं घट” 1 इत्याकारकम् बुद्धिधर्मः तथा सुखाद्या श्रपि तस्या बुद्धे एव + परिणामविशेषाः । "कृति सामानाधिकरण्येन " - - इति । कर्त्तृनिष्ठत्वेनानुभवसिद्धत्वात् । अर्थात् "हं करोमि " इति यत्र = यदधिकरणकः प्रत्ययः तत्रैव "हं सुखी, अहं दुःखी" इत्यादि प्रत्ययोsपि बोध्यः ।
"
* "कृदभिहितो भावो द्रव्यवद्भवती”ति " उपपदमतिङ् ” ( २ । २ । १६ ) इति सूत्रभाष्य उक्तम् ।
+ दर्पणमुखयोरसंसर्गाग्रहात् दर्पणनिष्ठमालिन्यस्य यथा मुखे भ्रमः तथा बुद्धिपुरुषयोरसंसर्गाग्रहात् बुद्धिनिष्ठज्ञानपरिस्यामित्वस्यापि पुरुषे भ्रम इति भावः ।
+ उक्तञ्च – “अध्यवसायो बुद्धिः । तत्कार्यं धर्मादि" (सा० द०२ । सू० १३, १४) सांख्यतत्वकौमुद्याच—
अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ इति ।