________________
अात्मवादे साङ्ख्यप्रक्रिया। कृत्यदृष्टभोगानामिव चैतन्यस्थाऽपि सामानाधिकरण्यप्रतीतेस्तद्भिन्ने मानाभावाच्च ।
(प्रभा०) ननु-यदि पुरुषो न कर्ता कथं तर्हि पुरुषोऽहङ्करोमीति प्रत्ययः ? इत्याशङ्कां बुद्धौ चैतन्यानुभव इव बुद्धिपुरुषयोविवेकाऽग्रहमूलको भ्रमरूप एव पुरुषे कर्तृत्वाऽनुभव इति ताम्परिहर्तुमाह-“पुरुष" । कर्तृत्वाभिमानः="अहङ्करोमि" इत्याकारोऽहम्प्रत्ययः । बुद्धौ-महत्तत्वाख्ये प्रकृतेः प्रथमे परिणामे, चैतन्याभिमानः"अहञ्चेतनोऽस्मि" इति प्रत्ययः । अत्र हेतुमाह-"भेदाग्रह"--इति । भेदाग्रहात्= बुद्धिपुरुषयोरसंसर्गाग्रहात् विवेकग्रहाभावात् पुरुषगतञ्चैतन्यम्बुद्धौ बुद्धिगतं कर्त्तत्वम्पुरुषे प्रतीयत इति तत्र द्वयोमिथुनीभावे कारणं द्वयोर्विविच्य ग्रहाभाव एवोक्काकारप्रत्ययहेतुरिति भावः । ___'बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्" (न्या० १ । १ । १५) इति नैयायिको बुद्ध्युपलब्ध्योर्भेदं न स्वीकरोति तन्मतम्परासितुम्बुद्धित उपलब्धेर्भेदं दर्शयन् तस्या अंशत्रयम्प्रदर्शयति-"ममेदम्" इत्यादिना । बुद्धिपुरुषयोभैंदाग्रहादेकत्वाभिमानः पुरुषोपराग इत्यर्थः । अस्मच्छब्दार्थभूतस्य पुरुषस्य सम्बन्धो ममेति षष्ट्या बोध्यते इत्याह-"पुरुषोपराग"-इति । पुरुषोपरागः-पुरुषसम्बन्धः, दर्पणस्य यथा मुखसम्बन्धः । ममेति प्रथमोऽशः ।
ननु-पुरुषेण बुद्धेः कः सम्बन्धः, न तावद्विषयविषयिभावाख्य: बुद्धेर्बुद्धयपरिणामित्वेन निर्विषयत्वात् । नच तादात्म्यश्चिजडयोस्तादात्म्याभावादत आह"बुद्धः स्वच्छतया"-इति । सत्त्वोद्रेक एव बुद्धेः स्वाच्छयमिति भावः । तत्प्रतिबिम्बात् तस्य पुरुषस्य तादात्म्यभ्रमादित्यर्थः । सोऽयं सम्बन्धो “योग्यतालक्षण" इत्यपि परिभाष्यतेऽस्मिन्दर्शने । तथाच --बुद्धौ पुरुषस्य तादात्म्याभावेऽपि स्वच्छतोपाधिकतादात्म्यभ्रमसत्त्वात् यदारोपितैकत्वं स एव पुरुषोपराग इत्यर्थः । स्वरूपबुद्धौ पुरुषै. क्यस्याऽवर्तमानतया अवास्तवत्वे दृष्टान्तमाह-''दर्पणस्येव"-इति । दर्पणे मुखसम्बन्धाभावेऽपि स्वच्छत्वरूपौपाधिप्रयुक्रमुखसम्बन्धो यथाऽध्यासिकः प्रतीयते, अर्थात् तादृशोपधिप्रयुकाऽऽध्यासिकमुखसम्बन्धवत्त्वं यथा दर्पणे भाति, तद्वत् प्रकृतेऽपि बोध्यम् । सम्प्रति द्वितीयमंशं दर्शयति-"इदमिति"-इति । इदम्पदस्य घटादिरूपविषयार्थकतया तत्सम्बन्धवत्त्वम्बुद्धौ स्वीकार्यमित्याह-"विषयोपराग"-इति । विषयोपरागः-विषयसम्बन्ध: । तद्दर्शयति--"इन्द्रियप्रणालिकया"--इति । तदेतदधस्तात्कृतव्याख्यानम् । * नि:श्वासेनाभिहतः यो दर्पणः तत्र यः मलिनिमा= मालिन्यम् । परिणतिभेदः="अयं घटः” इत्यादिज्ञानरूपः बुद्धेः परिणाम एव विषयेण-घटादिना । अर्थात् विभिन्ना विलक्षणा परिणतिरिति परिणतिभेदः ।
* फूत्कारजन्यवायुसम्बन्धाज्जायमानदर्पणनिष्ठमलिनिमेवेत्यर्थ इति प्राचीना प्रभा।