________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे सत्त्वाभ्याम्=बुद्धिसत्त्वासत्त्वाभ्यामित्यर्थः । पुरुषस्य = जीवस्य । संसारापवर्गौ= बन्धमोक्षौ स्त इति शेषः । नित्यशुद्धबुद्धमुक्तस्वभावस्यापि पुरुषस्य बुद्ध्युपरागकृतः संसारः कुसुमोपरागकृतं लौहित्यमिव तदपगमे च मोक्षः स्वो भावः । कुसुमाग यथा स्फटिकस्य स्वो भावः श्वेतिमा । " तस्या एव " - इति । " तस्याः" इति पदस्य " परिणतिः" इति पदेन सम्बन्धः । इन्द्रियप्रणालिकया = चक्षुरादीन्द्रियरूपालिकाद्वारा यो घटादिना - घटपटादिविषयेन सह सम्बन्धः - स्वाकारतासमर्पणरूपः तत्तद्विषयाकारतास्वरूपः । श्रर्थात् बुद्धेरेव महत्तत्त्वाख्यायाः सा ज्ञानरूपा ज्ञानाकारा परिणतिर्बुद्धेरेवेत्यन्वितार्थः । एवमिच्छाद्या श्रपि बुद्धेः परिणामाः । इदमेव ज्ञानमध्यवसायपदेनाप्यभिलप्यते ।
१३८
इदन्तु बोध्यम्
"
( - यथा स्वभावतः चलनस्वभावमपि जलाशयान्तर्वर्त्ति सलिलं निर्गममार्ग प्रतिबन्धे सति क्षेत्रमुपसृत्य तदाकारम्भवितुं नार्हति तदेव तु प्रतिबन्धापगमे छिद्वारा बहिर्निर्गत्य कुल्यात्मना क्षेत्रमुपसर्पत् केदाराकारेण परिणतञ्जायते । तथा स्वभावतः सर्वविषयप्रकाशनसमर्थमपि बुद्धिसत्त्वं तमोगुणेन प्रतिबद्धं सत् स्वयं घटपटादिविषयोपसर्पणेऽसमर्थमपि चतुरादीन्द्रियसन्निकर्षद्वारा तमो निरासे सति इन्द्रियात्मनालिकाद्वारा विषयदेशङ्गत्वा तत्तद्विषयाकारेण परिणमते, सोऽयम्बुद्धितत्त्वस्य विषयाकारतारूपः परिणामः श्रध्यवसायो वृत्तिरिति ज्ञानम् इति चाभिधीयते । उक्तञ्च योगभाष्यकारैः – “फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोध : " इति ।
इन्द्रियप्रणालिकया अर्थसन्निकर्षानन्तरं जायमाना " अयं घटः" इत्याकारा. चित्तवृत्तिः तद्विषयको य: "अहं घटञ्जानामि" इत्याकारोऽनुभवः स प्रमाणभूतायाश्चित्तवृत्तेः फलम् । सचानुभवः पौरुषेयः चितिचित्तयोरभेदामहात्पुरुष उपचर्य - माणत्वेन पुरुषवर्त्तीत्यर्थः । वस्तुतस्त्वसङ्गे तस्मिन् कदापि नोपपद्यते इति साङ्ख्याकूतकम् । एतच्चानुपपदं मूले स्फुटीभूतं व्याख्यातञ्चास्माभिः ।
(मुक्ता०) पुरुषे कर्तृत्वाभिमानो बुद्धौ चैतन्याभिमानश्च भेदाग्रहात् । ममेदं कर्तव्यमिति मदंशः पुरुषोपरागो बुद्धेः स्वच्छतया तत्प्रतिबिम्बादतात्त्विको दर्पणस्येव मुखोपरागः । इदमिति विषयोपरागः, इन्द्रियप्रणालिकया परिणतिभेदस्तात्त्विको निःश्वासाभिहतदर्पणस्येव मलिनिमा । कर्तव्यमिति व्यापारांशः । तेनांशत्रयवती बुद्धि: । तत्परिणामेन ज्ञानेन पुरुषस्यातात्त्विकः सम्बन्धो दर्पणमलिनिम्नव मुखस्योपलब्धिरुच्यते । ज्ञानादिवत्सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि बुद्धेरेव कृतिसामानाधिकरण्येन प्रतीतेः । नच बुद्धिश्चेतना परिणामित्वादिति मतमपास्तम्,
S
* बुद्धिसत्त्वे घटादिर्विषयः स्वाकारपरिणामिबुद्धय गृहीता संसर्गकत्वसम्बन्धेन पुरुषनिष्ठः पुरुषस्वरूपतिरोधानेन पुरुषस्य संसारापादक इति भावः ।