________________
आत्मवादे साङ्ख्यप्रक्रिया |
नैवम् । यथा प्रकृतिरित्यनुमानं निर्लिप्तत्वे मानम् । यथा पद्मपत्रमम्भसा न लिप्तम्भवति, तथा पुरुष: कर्तृत्वादिधर्माश्रयो न भवतीत्यर्थः । इत्थमनुमानान्तरमपि 'फलितम्–“पुरुषः कर्त्तृत्वादिधर्माभाववान् कारणत्वाभावात् यन्नैवं तन्नैवम्” यथा प्रकृतिः । कारणत्वाभावादित्यस्य हेतोरसिद्धिशङ्कां वारयति - "कार्यकारणयोः "इति । श्रभेदात् = तादात्म्यलक्षणात्सम्बन्धादित्यर्थः । साङ्ख्यमत इति शेषः । तन्नाशः=पुरुषनाशः । न स्यात् = माभूत् । इति हेतोः श्रकारणत्वम् = श्रकर्तृत्वम् । तस्य = पुरुषस्य । स्वीकार्यमिति शेषः । तथाच - नाशाsप्रतियोगित्वरूप नित्यत्वाऽनुपपत्त्या पुरुषे कारणत्वं नाङ्गीकर्त्तव्यमिति भावः ।
१५७
अयमभिप्रायः - पुरुषश्चेत्कारणं स्यात् तर्हि धर्मलक्षणावस्थापरिणामेष्ववश्यमन्यतमपरिणामाश्रयः स्यात् तेन च तस्य कौटस्थ्यं श्रुतियुक्तिसिद्धं व्याहन्येत ।
ननु - एवंविधनिरतिशयपुरुषसत्त्वे किम्मानम् ? अत आह— " बुद्धिगता "इति । बुद्धिगतो बुद्धिवर्त्ती यश्चैतन्याभिमानः " चेतनोऽहम्" इत्याकारकः, तस्य अन्यथानुपपत्या=पुरुषानङ्गीकारेऽसिद्धया । तत्कल्पनम् = पुरुषसिद्धिरित्यर्थः । इदमत्र तत्त्वम् — साङ्ख्यसिद्धान्ते बुद्धिः प्रकृतेः प्रथमः परिणामः, प्रकृतिश्च जडा, तत्कार्यभूताया बुद्धेरपि जाड्यं स्वभावः । उपादानानुविद्धत्वादुपादेयस्य । यथा मृदनुविद्धत्वाद् घटोsपि मृदेव, परन्तु तत्र ज्ञानेच्छादिधर्मोपलब्धेश्चैतन्यमपि प्रतीयते । तत्तादृशचेतनस्वभावपुरुषसम्बन्धमन्तरा नार्हति भवितुम्, क्वचित्प्रसिद्धस्यैव चैतन्यस्य बुद्धावारोपसम्भवात् । यथा “रक्तः स्फटिकः" इत्याकारायाम्प्रतीतौ जवाकुसुमोपरागेणैव स्फटिके लौहित्यम्भाति तद्वत् ।
ननु- - का सा बुद्धिर्यस्याम्पुरुषोपरागवशाच्चैतन्यम्प्रतीयते ? इति जिज्ञासायामाह - " बुद्धिश्च " - इति । प्रकृतेः = प्रधानस्य | परिणाम: = अवस्थाविशेषः । " सैव " - इति । सेयम्बुद्धिः महत्तत्त्वम्, अन्तःकरणमिति च ख्यायते । तत्सत्त्वा
* " लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ” ( भ० गी० ) इति भगवदुक्तेः । + अत्रेदम्बोध्यम्--धर्मलक्षणावस्थाभेदात् त्रिधा परिणामः । उक्तञ्च पातञ्जले" एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः " (यो० पा० २ । सू० १३) इति । श्रस्यायमर्थसारः— मृद्रूपस्य धर्मिणो घटाकारपरिणाम: धर्मपरिणामः । तस्यैव घटस्य अनागताध्वपरित्यागेन वर्त्तमानाध्वस्वीकार:, तत्परित्यागेन चाती ताध्वपरिग्रहो लक्षणपरिणाम: । तस्यैव घटस्य नूलप्रत्नादिभेदेन क्षणे क्षणे परिक्षयतारूपोऽवस्थापरिणामः । अतः प्रतिक्षणं परिणामिनो भावा ऋते चितिशक्तेः । एवम्प्रकृतेर्महत्तत्त्वं धर्मपरिणामो बोध्यः । श्रवस्थितस्य वस्तुनः पूर्वाऽवस्थापरित्यागेन ( पूर्वधर्मनिवृत्तौ ) धर्मान्तरोत्पत्तिः परिणामः । नैयायिकास्तु-परिणामं विनाशमेवाहु: ।