________________
१५६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
(मुक्ता०) एतेन प्रकृतिः कर्वी पुरुषस्तु पुष्करपलाशवन्निर्लेपः, किन्तु चेतनः । कार्यकारणयोरभेदात् कार्यनाशे सति कार्यरूपतया तन्नाशो न स्यादित्यकारणत्वं तस्य । बुद्धिगतचैतन्याभिमानान्यथानुपपत्त्या तत् कल्पनम् । बुद्धिश्च प्रकृतेः (प्रथमः) परिणामः । सैव महत्तत्त्वमन्तःकरणमित्युच्यते । तत्सत्त्वासत्त्वाभ्याम्पुरुषस्य संसारापवर्गौ तस्या एवेन्द्रियप्रणालिकया परिणतिनिरूपा घटादिना सम्बन्धः।
_ (प्रभा०) सम्प्रति साङ्ख्यमतं दूषयितुमुपन्यस्यति-"एतेन" इति । एतेन-पूर्वोक्तयुक्त्या अात्मनो ज्ञानवत्वसाधनेन, वक्ष्यमाणग्रन्थेन च । अस्य "मतमपास्तम्" इत्यनेनान्वयः । “प्रकृतिः" इति । मूलप्रकृति-रित्यर्थः । साच सत्त्वरजस्तमसां साम्यावस्था। उक्तञ्च ब्रह्मवैवर्त प्रकृतिखण्डे प्रथमाध्याये, देवीभागवते. नवमे स्कन्धे प्रथमाध्याये च
प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकः । सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ॥ गुणे प्रकृष्टसत्त्वे च प्रशब्दो वर्त्तते श्रुतौ । मध्यमे रजसि कृश्च तिःशब्दस्तमसि स्मृतः ॥ इति । मूलप्रकृतिरविकृतिर्महदाद्या: प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृति: पुरुषः ॥ इति । ___ इति साङ्ख्याभिताः पञ्चविंशतिः पदार्थाः तत्र प्रकृतिरेव ( सकलजगत: ) की उपादानं कारणमित्यर्थः । परिणामस्वभावत्वात् । कर्त्तत्वञ्चान कर्तभूतान्तःकरणप्रकृतित्वमेव नत्वनुकूलकृतिमत्त्वं कर्तृत्वरूपमिष्टं साङ्ख्यानाम्, तेषां मते तस्य अन्तःकरणधर्मत्वात् । पुरुषः जीवश्चेतनालक्षणः अपरिणामी । “निर्गुणत्वान्न चिद्धर्मा" ( सां० १॥ १४७ ) इत्युक्तः। पुष्करपलाशवत्-पद्मपत्रवत् । निर्लेपः=
प्रसङ्गः, “असङ्गो ह्ययम्पुरुषः" (बृहदा० ६।३।१६) इत्युक्तेः । “किन्तु"-इति । किन्तु यतः चेतनः चित्स्वभावः । तथाच-पुरुषो लिप्तत्वाभाववान् चेतनत्वात् यन्नैवं
* सत्त्वादीनां स्वरूपमुक्तं साङ्ख्यतत्वकौमुद्याम्
सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकन्चलञ्च रजः ।
गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ इति ।
ननु-किमिदं नाम निर्लिप्तत्वम् ? उच्यते-अनुयोगितासम्बन्धेन विजातीयसंयोगवत्त्वं लिप्तत्वम् । तदभाववान् निर्लेपः, तस्वञ्च निर्लिप्तत्वम् । वैजात्यश्चात्र—अम्भसा लिप्तम् , भस्मना लिप्तम् , तैलेन लिप्तं शरीरमित्याधनुगतप्रतीतिसिद्धनोदनत्वव्याप्यजातिविशेषरूपम्बोध्यम् । विस्तरस्त्वन्यतोऽनुसन्धेयः।