________________
वेदान्तिमतनिरासः।
नैयायिकः समाधत्ते-"न"-इति । क्लिष्टकल्पनापत्तेः नअस्तत्र लक्षणापत्तेरित्यर्थः। अयमाशयः-भवत्कृतो बहुब्रीहिः समासोऽन्यपदार्थप्रधानः । तन च "न"पदस्यान्यपदार्थे लक्षणा क्लिष्टकल्पनैव तत्पुरुषसमासे तु नायं दोषः । अन्न हेतुमाह-"प्रकरणविरोधात्" इति । बार्हदारण्यके अस्थूलादिवाक्ये सर्वत्र नञ्तत्पुरुषसमास एवाश्रितः, समानप्रवाहपतिताऽसुखपदस्यापि प्रकरणेन स एवाऽऽश्रयणीयो भवति नतु बहुब्रीहिरिति भावः ।
___ स्त्रोक्नेऽर्थे हेत्वन्तरमाह-"प्रकरणविरोधात्" इति । शरीरभेदाद्यर्थकाशरीरमित्यादिश्रुतिघटकसुखशब्दस्य सुखाभाववदर्थकत्वाऽसम्भवादित्यर्थः । अत्रैव विरोधान्तरमाह-"अानन्दमित्यत्र"- इति । मतुबर्थोऽच्प्रत्ययः । अन्यथा नित्यपुंल्लिङ्गस्यानन्दशब्दस्य नपुंसकत्वाऽनुपपत्तिरेव । “असुखम्" इत्यत्र बहुब्रीहिसमासाश्रयणे तु एतेनापि विरोध: स्यादिति भावः । अपिच "अानन्दम्ब्रह्मणो विद्वान्" इत्यादिश्रुत्या अानन्दब्रह्मणोः स्पष्ट एव भेद अाम्नातः । सोऽप्यस्माकं गुणगुणिनोभैदवादिनां मते सङ्गच्छते, नत्वभेदवादिनामित्याशयवानाह–“सक्षेप" इति ।
__ अयमस्य वेदान्तमतस्य सङ्क्षिप्तसार:-सच्चिदानन्दस्वरूपमद्वैतम्ब्रह्मैव परमार्थसत्यं ततोऽन्यत्प्रतीयमानं मरुमरीचिकेव शुक्तिरजतमिव भ्रान्तिविलसितं मिथ्यैव । मिथ्यात्वञ्च यत्र यस्यात्यन्ताभावः तत्रैव तस्य प्रतीयमानत्वम् । तदिदम्प्रतिभासशब्देनाप्युच्यते । तदेवैकम्ब्रह्मोपाधिवशाजीवभावम्प्राप्तमिव भाति । उपाधीनामनेकत्वान्नाना जीवाः । यथा घटमठाधुपाधिभेदेन एकस्मिन्नप्याकाशे नानात्वव्यवहारः । सचोपाधिर्द्विविधः । मायाऽविद्या च । मायोपाधिकञ्चैतन्यमीश्वरः । अविद्योपाधिकचैतन्यञ्जीवः । रागद्वेषात्मकप्रबन्धानुपाती संसारो बन्धः । अविद्यैव तस्य निदानम् । जीवस्य (ब्रह्म स्वरूपाविर्भावो मोक्षः । तत्त्वमस्यादिमहावाक्यजन्या "अहम्ब्रह्मास्मि" इत्यखण्डाकारा वृत्तिब्रह्मविद्या । सेयमुक्तम्बन्धं समूलघातं हन्तीति मोक्ष एव परः पुरुषार्थः । उनञ्च
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधौतम् । तद्वदात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥ यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतस्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥
(श्वेता० २ । १४, १५)