________________
१५४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे सुखं यस्येति कुतो नार्थ इति चेन्न, क्लिष्टकल्पनापत्तेः । प्रकरणविरोधादानन्दमित्यत्र मत्वर्थीयाच्प्रत्ययविरोधाञ्चेति सङ्क्षपः ।
(प्रभा०) यत्तु वेदान्तिना ईश्वरस्य ज्ञानसुखस्वरूपत्वमुक्तं तदपि न युक्तमिति दर्शयति-"ईश्वरोऽपि"-इति । अपिना यथा जीवो न ज्ञानसुखात्मा तादृशार्थसाधकप्रमाणाभावात् तथेश्वरोऽपि न ज्ञानसुखात्मेति सूचितम् । तदेवोपपादयति"किन्तु"-इति । ननु-बार्हदारण्यकश्रुतौ ब्रह्मणो विज्ञानस्वरूपतैवोक्ता इत्याशङ्कायां तां श्रुतिमुद्धत्यार्थान्तरपरतया व्याचष्टे-"ज्ञानाद्याश्रय"--इति । नित्यज्ञानाद्यधिकरण इत्यर्थः । श्रुतिस्थविज्ञानपदं धर्मधर्मिभावपरतया व्याचष्टे"विज्ञानपदेन"--इति । विज्ञानमस्मिन्नस्तीति "विज्ञानम्” इति व्युपसृष्ट"ज्ञा". धातो: "करणाधिकरणयोश्च ( ३ । ३ । ११७ ) इति सूत्रेण अधिकरणार्थकल्युट्प्रत्ययान्तम्पदमिदमिति भावः । अस्मिन् पक्षे मुण्डकश्रुतिमप्युपन्यस्यति--"यः सर्वज्ञ"-इति । इत्थञ्च-"नित्यं विज्ञानमानन्दम्ब्रह्म" इति श्रुतौ विज्ञानपदस्य भावार्थकत्वे "यः सर्वज्ञः” इत्यादिश्रुतिविरोधोऽपरिहार्यः स्यादिति भावः।
ननु-ज्ञानब्रह्मणोर्गुणगुणिभावपक्षे "विज्ञानमानन्दम्ब्रह्म' इति श्रुतिस्थाऽऽनन्दपदस्य का गतिः ? इत्याह-'आनन्दम्" इति । 'अर्श आदिभ्योऽच" (५। २ । १२७) इति पाणिनिसूत्रेण मतुबर्थकाचप्रत्ययनिष्पन्नमिदं नपुंसकलिङ्गमानन्दपदम्-श्रानन्दोऽस्यास्तीति व्युत्पत्तेः। ततश्च "अानन्दम्" इत्यस्यानन्दवदर्थो बोध्यः । अन्यथा-सुखार्थानन्दशब्दस्य पुंल्लिङ्गत्वनियमेन मत्वर्थीयाचप्रत्ययान्तवं विना कथं नपुंसकत्वापत्तिः स्यात् ।।
ननु-आनन्दवदित्यर्थो न युक्तस्तव मते ईश्वरेऽप्यानन्दाभावात् सुखापरपर्यायस्य आनन्दस्य पुण्यफलत्वात् ईश्वरस्य च * पुण्यादेरभावकारणादित्याह"आनन्दोऽपि"-इति । “उपचर्यते"-इति । दु:खाभावम्प्रवृत्तिनिमित्तीकृत्य ईश्वरे आनन्दशब्दः प्रयुज्यते, अर्थात् लक्षणवृत्या दुःखाभावबोधकोऽयमानन्दशब्दो नतु “समवायेनानन्दवान्" इत्यर्थपरकः । ततो नोक्तदोष इत्यर्थः । एतद् दृष्टान्तेन स्फुटयति-"भाराद्यपगम"-इति । सम्भवति मुख्येऽर्थे जघन्यवृत्तिकल्पनमन्याय्यमिति तत्राह-"अस्तु वा"-इति । नानन्दब्रह्मणोरभेद इत्यर्थः । अत्र श्रुतिमाह"असुखम्" इति । “न सुखम्' इति नञ्तत्पुरुषसमासाश्रयेण प्रकृते नञ् ब्रह्मणः सकाशात् सुखस्य भेदम्बोधयति । एवं श्रुतिघटको नञ् सुखभेदपर इति भावः ।
___ वेदान्ती शङ्कते-"न विद्यते"-इति । तथाच-न तत्पुरुषसमासः, किन्तु बहुव्रीहिरित्याशयः।
* विहितक्रियाजन्यो धर्मः पुण्यम् । विहिता च क्रिया यागादिरेव। नचेश्वरो यागाद्यनुष्ठाता, तदधिकारी वा येनाऽसौ पुण्यजन्यसुखफलभाग्भवेदित्याशयः ।