________________
वेदान्तिमतनिरासः ।
व्यक्तीत्यर्थः । एकस्वेऽपि = श्रभेदेऽपि । उभयं नैकम् - जीवब्रह्मणो एकत्वाऽभिन्नसङ्ख्यावन्ती नेति प्रकृते योज्यम् ।
१५३
यमर्थः -- गन्धः पृथिवीगुणो नतु जलस्य तथापि " * पृथिवीजलयोर्न गन्ध" इति व्यवह्रियते लोके, तस्य नायमर्थो यत्पृथिव्यामपि गन्धो नारित, किन्तु पृथिव्यामेव गन्धो नतु जले । तथैव प्रत्येकं सर्वासु व्यक्तिषु एकत्वे = अभेदे सत्यपि “उभयं नैकम्" इत्ययम्भेदसाधकः प्रत्ययः सर्वानुभवसिद्ध नापलपितुं शक्यः । सम्प्रति "ब्रह्मविद् ब्रह्मैव भवति" इति मोत्तदशायामभेदबोधकस्यागमस्य व्यवस्थामाह-"योऽपि " -- इति । तदानीम् = मोक्षकाले । श्रभेदप्रतिपादकः = जी वब्रह्मणोरैक्यप्रमितिजनकः श्रागमः="ब्रह्मवेद ब्रह्मव भवति” (मुण्ड० ३ । २१ ) इत्यादिशब्दप्रमाणम् । सोऽपि निर्दुःखत्वादिना = निर्दुःखित्वादिविशिष्टात्मत्वेन रूपेणेत्यर्थः । साम्यम् = ब्रह्मसाम्यम् । स्तौति=अभेदत्वेन प्रतिपादयति । एवञ्चाऽभेदार्थस्य प्रातीतिकार्थत्वेऽपि साम्यस्यैव वास्तविकार्थत्वाद् दोषाभावः ।
ननु-- साम्यबोधनाभिप्रायेण एकत्वप्रतिपादने न कमपि दृष्टान्तम्पश्याम इतीमा शङ्कां परिहरति--" सम्पदाधिक्ये " इति । यथाऽत्यन्तधनिनि राजपुरोहिते अराजन्यपि " अयं राजा" इत्यमुख्यो व्यवहारः । एवमेव ब्रह्मण्यपि निवृत्तमिथ्याज्ञाने जीवे "ब्रह्मवायम्” इति जघन्यार्थपरतयोक्त श्रुतेर्व्यवहार इति भावः । उक्तार्थो - पष्टम्भकं श्रुत्यन्तरं वक्तुमाह-- “ श्रत एव " - - इति । साम्यप्रतिपादकत्वादेवेत्यर्थः । “निरञ्जनः”—- इति । निर्दुःखः सन् मुक्तः परमम् = अपुर्न भवरूपम्, साम्यम्= मोक्षाख्यम्, उपैति=प्राप्नोति । इति श्रुतेरर्थः ।
( मुक्का० ) ईश्वरोऽपि न ज्ञानसुखात्मा किन्तु ज्ञानाद्याश्रयः । “नित्यं विज्ञानमानन्दम्ब्रह्म" (बृहदा० ५/६ ७) विज्ञानपदेन ज्ञानाश्रय एवोक्तः । " यः सर्वज्ञः स सर्ववित्" (मुं० १ । ६ ) इत्यनुरोधात् । श्रानन्दमित्यस्याप्यानन्दवदित्यर्थः 1 अर्श-आदित्वान्मत्वर्थीयो ऽच्प्रत्ययः, पुँल्लिङ्गत्वापत्तिः । श्रानन्दोऽपि दुःखाभावे उपचर्यते, भाराद्यपगमे सुखी संवृत्तोऽहमितिवत् दुःखाभावेन सुखित्वप्रत्ययात् । अस्तु वा तस्मि न्नानन्दो नत्वसावानन्दः "सुखम् " (बृह० ५८८) इति श्रुतेः । न विद्यते
अन्यथा
"
* त्राहु:-- “ पृथिवीजलयोर्न गन्ध" इति प्रतीत्या पृथिवीजलत्वोभयत्व रूपव्यासज्यवृत्तिधर्मावच्छिन्नाऽनुयोगिताकगन्धात्यन्ताभावो यथा स्वीकृत: तथा " उभयं नैकम्" इति प्रतीत्या उभयत्वरूपव्यासज्यवृत्तिधर्मावच्छिन्नाऽनुयोगिता कैकत्ववदन्योन्याभावस्वीकारे बाधकाभाव इति प्राचीना नृसिंहशास्त्रिणः । अत्र बहुवक्तव्यमपि ग्रन्थगौरवभयात् वर्त्तमानकालिकसुकुमारमतीनां काठिन्यभय चोपेचिषि ।