________________
११२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
म्भेदाभेदवादिनम्प्रत्याह--"मोक्षदशायाम"--इति । तस्वज्ञानाऽव्यवहितोत्तरकाल इत्यर्थः । अज्ञाननिवृत्तौ मिथ्याज्ञाननिवृत्तौ । अभेदः जीवब्रह्मणोरैक्यम् । जायतेभवति । इत्यपि न-इदम्मतमपि न समीचीनमित्यर्थः । तत्र हेतुमाह--'भेदस्य नित्यत्वेन"--इति । अन्योन्याभावस्य निरत्वेन तन्नाशाऽसम्भवादित्यर्थः । अभ्युपगमसिद्धान्तेनाह--"भेदनाशेऽपि"-- इति । “व्यक्तिद्वयम्"--इति । जीवब्रह्मरूपं व्यक्तिद्वयम् । अर्थात् यथा अपेक्षाबुद्धिनाशे द्वित्वनाशः तथापि व्यक्तिद्वयं तिष्ठति तथा कारणीभूताऽनियतापेक्षाबुद्धिनाशादज्ञाननाशेऽपि व्यक्तिद्वयावस्थितिर्निराबाधा।
ननु--व्यक्तिद्वये सत्यपि द्वित्वं न भविष्यति मोक्षे इत्याह--"नच"इत्यादि । “निर्धर्मके"--इति । निर्विशेषे इत्यर्थः । यथा सकलधर्मशून्यम्ब्रह्म सत्यत्वधर्माभाववत् तव मते सत्स्वरूपं तथैव मोक्षे द्वित्वधर्माभावेऽपि तौ जीवेश्वरौं यक्तिद्वयात्मको व्यक्तिद्वयस्वरूपावेवेत्यपि मया वक्तुं शक्यत इति भावः ।
(मुक्का०) मिथ्यात्वाभावोऽधिकरणात्मकस्तत्र सत्यत्वमिति चेदेकत्वाभावो व्यक्तिद्वयात्मको द्वित्वमित्यप्युच्यताम् । प्रत्येकमेकत्वेऽपि पृथिवीजलयोन गन्ध इतिवदुभयं नैकमित्यस्य सर्वजनसिद्धत्वात् । योऽपि तदानीमभेदप्रतिपादको वेदः सोऽपि निर्दुःखत्वादिना साम्यम्प्रतिपादयति । सम्पदाधिक्ये पुरोहितोऽयं राजा संवृत्त इतिवत् । अत एव "निरञ्जनः परमं साम्यमुपैति" इति श्रूयते। . (प्रभा०) * ननु-न मया ब्रह्मणि सत्यत्वम्भवदभिमतरीत्या स्वीक्रियते । "यन्मिथ्या तदसत्" एवं मिथ्यात्वाभाव एव ब्रह्मणि सत्यत्वम् , कल्पितवस्तुनो नाशस्याधिकरणस्वरूपत्वात् “अधिष्टानावशेषो हि नाशः कल्पितवस्तुना" इत्युक्तेः । ततश्च नोक्तदोष इत्यभिप्रायवान् “मिथ्यात्वाभाव"--इत्यारभ्य "इति"--पदान्तो ग्रन्थः पूर्वपक्षिणः!
तत्रोत्तरमाह--"एकत्वाभाव"--इति । एकत्वमभावो यस्येति व्युत्पत्त्या एकत्ववदन्योन्याभाव इत्यर्थः । तेन उत्पत्तिकालीनघटस्य एकत्व भाववत्तया तादृशाऽभावस्यैकव्यक्त्यात्मकत्वेऽपि न क्षतिरिति प्राचीनाः। वयन्तु बालबोधार्थमेवमभिप्रायप्रकटयामः--यथा तव नये मिथ्याप्रपञ्चाभावाधिकरणब्रह्मैव सत्स्वरूपम् , सत्यत्वञ्च ततो नातिरिक्तम्, एवमस्मन्नयेऽपि एकत्वसङ्ख्याया प्रभावस्वरूपमेव व्यक्तिद्वयात्मकं द्वित्वमित्यपि वक्तुं सुशकम् , सर्वथापि मोक्षे नैव जीवब्रह्मणोरैक्यमिति सिद्धान्तिनो हृदयम् । स्वोक्ति दृष्टान्तेन समर्थयति सिद्धान्ती--"प्रत्येकम्"--इति । प्रति
। अत्र वेदान्तिनः-निर्धर्मकत्वञ्च ब्रह्मणो धर्मिस्वरूपातिरिक्तधर्मशन्यत्वमभिमतम् । तथाच-सत्यत्वन्तत्र (ब्रह्मणि) मिथ्यात्वाभावः । सच ब्रह्मण्यधिष्ठाने तत्स्वरूप एव । एवञ्चसत्यत्वधर्मो धर्मिस्वरूप एवेति तदतिरिक्तधर्मशून्यत्वमक्षतमित्येतदाह-"ननु" इति। .