________________
वेदान्तिमतनिरासः ।
वास्तवञ्जीवब्रह्मणारभेदम् । यथा पुत्रविषये पितुर्वाक्यम् “ममात्मा भद्रसेन” इति । अत्र भद्रसेनस्य तत्पितुश्च भेदे स्पष्टे उपचारेण स्वजन्यजनकत्वसम्बन्धेन अात्मपदद्वारा अभेदव्यवहारः, तथैव--पितृस्थानीयस्योत्पादकस्येश्वरस्य पुत्रस्थानीयै* जीवैः सह तदीयत्वेन तत्सम्बन्धित्वेन अभेद औपचारिको न भाविक इति ध्येयम् ।
स्तोतीति कथनेन तथाचान्यान्यप्यभेदवाक्यानि सति वास्तवे भेदे वेदे सन्त्येव । यथा “यजमानः प्रस्तरः" "श्रादित्यो यूप' इत्यादीनि । यथा तत्रोपचारस्तथा प्रकृतेपीति बोधयति । अत्र...... "अभेदभावनया" -- इति । भावना-उपासना विजांतीयप्रत्ययानन्तरितः समानाकारप्रत्ययप्रवाह श्वेतसो निदिध्यासनापरपर्यायाभिध इति यावत् । अनयवाऽभेदोपासनया यतितव्यम्मुमुक्षुणेति शेषः । “इति वदति" इत्यनेन “वेद" इति कर्तृपदं सम्बद्धयते । अर्थादेनमाशयार्थमुक्तश्रुतिरेव बोधयति । निरतिशयानन्दे ब्रह्मणि परानुरक्तिसम्पादनायाभेदोपासनापराण्यभेदवाक्यानीति भावः । उक्तार्थदृढतायै श्रुतिम्प्रमाणयितुमाह--"अत एव"--इति । यस्मात् परमेश्वरे परानुरक्तिसम्पादनपरकत्वमभेदवाक्यानामतो हेतोरित्यर्थः । अत्राथै उपष्टम्भकं श्रुतिवाक्यमुद्धरति- “सर्व एवात्मनि"-- इति । विद्वान् पुरुषः पुत्रशरीराद्यात्मानम्मुख्य. मात्मस्वरूपमात्मानञ्च प्रात्मनि परब्रह्मणीश्वरे समर्पयति-तद्भावनया भावयतीति श्रतेर्विवक्षितीर्थः । प्राक्तनग्रन्थसम्मतः श्रुतिपाठस्तु--"सर्वे प्रात्मानः समर्पिताः" इत्येवरूपोऽस्ति । तस्यायमर्थः---सर्वे अात्मानो जीवा ईश्वरसेवार्थे नियुक्ता इति । इयं श्रुतिः कस्याः शाखायाः किंरूपाश्चात अध्ययनकालेऽपि निर्णेतुं नापीपरम् । इति-एतादृशोऽर्थः । श्रूयते-श्रुतिवाक्यजन्यशाब्दबोधविषयीक्रियते ।
इत्थञ्च-जीवब्रह्मणोरभेदे सेव्यसेवकभावप्रतिपादकश्रुतेरप्रामाण्यार्थोपत्तिः स्यात् एकव्यक्तौ तदसम्भवादिति प्राक्तनव्याख्याकर्तारः ।
अन्योऽन्याभावमनित्यमङ्गीकुर्वताम्मुक्तावभेदमेव मन्यमानानाम्भट्टभास्करप्रभृति* 'अमृतस्य पुत्राः” इति श्रुतिः ।
सम्बन्धश्च प्रकृते नियाम्यनियामकभावादिः ।
* एतच्च---पूर्वमीमांसाया: प्रथमाध्याये चतुर्थे पादे त्रयोदशाधिकरणे तसिद्धिपेटिकायाश्चिन्तितम् । किं “यजमानः प्रस्तर:' इत्येप गुणविधिः किंवा अर्थवाद इति । किं तावत्प्राप्तम् ? गुणविधिरिति अर्थात् जघन्यप्रस्तरपदलक्षितप्रस्तरकार्यमुग्धारणोद्देशेन यजमानोऽधिकरणत्वेन विधीयते । इत्येवम्प्राप्ते सिद्धान्तमाह-प्रत्यक्षविध्यश्रवणात् "प्रस्तरमुत्तरम्बर्हिषः सादयति' इति विध्यन्तरैकवाक्यत्वाच्च तस्यार्थवादत्वमेवेति सिद्धान्तितम् , यजमानपदन्तु गौण्या वृत्त्या प्रस्तरस्तावकम् । इदन्तु बोध्यम्-प्रकृतीष्टौ चतस्रो दर्भमुष्टयः छिद्यन्ते । प्रथमा दर्भमुष्टिर्मन्त्रैः संस्कृता वेद्यां जुहूर्यस्यां निर्धायते, विधृतिसज्ञकयोरुदगग्रयोर्दर्भयोरुपरि या च रथापिता भवति सा "प्रस्तर" इत्युच्यते ( श्रौतपदार्थनिर्वचनम् ) ।
*
+-