________________
१५०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
नन--जीवब्रह्मणोरभेदानेदं वाक्यमन्यार्थपरमित्याह--"ज्ञानाज्ञान"--इति । एवं सति--जीवब्रह्मणोरैक्याजीवस्य ज्ञानभिन्नत्वे उक्तश्रुतिविरोधस्तदवस्थ इत्याक्षेपो न भविष्यतीति भावः । _ "सुखित्वात्"--इत्यादिना दुःखित्वपरिग्रहः । “भेदसिद्धौ”--इति । "जीवेशौ भिन्नौ विरुद्धधर्माका तत्वात् दहनतुहिनवत्" इत्येवम्भेदाऽनुमितौ इत्यर्थः ।
श्रयमाशयः-ईश्वरः सर्वज्ञः सर्ववित् सर्वशक्तिमान् नियामको नित्यमुक्तः, जीवस्तु--अल्पज्ञोऽल्पशक्तिर्मुखी नियाम्यः, तत् कथमत्यन्तं विरुद्धधर्मयोर्जीवेश्वरयोरभेदः सम्भवेत् , भेदस्य विरुद्धधर्माध्यासत्वात् ।
प्राचीनप्रभाकारस्तु--"भेदसिद्धौ”--इति । परस्परभेदाऽनुमितावित्यर्थः । तथाच--एतच्छरीरावच्छेद्यविज्ञानादिमान् एतच्छरीरसमानकालीनयोगाद्यजन्यतच्छरीरसजातीयैतच्छरीरभिन्नशरीरावच्छिन्नभिन्नः एतन्छरीरसमानकालीनैतच्छरीरसजातीयतच्छरीरभिन्नयोगाद्यजन्यशरीरावच्छेद्यज्ञानाद्याधारस्वादिति व्यतिरेक्यनुमानात् जीवानाम्परस्परभेदः सिद्धयतीति भाव इति व्याचख्यौ ।
विपक्षे दण्डमाह--"अन्यथा"--इति । ईश्वरस्य जीवस्वरूपत्वे इत्यर्थः । जीवानामीश्वराऽभिन्नत्वे इति तु तात्पर्यम् । "बन्धमोक्ष"--इति । कश्चित् संसारी बद्धः कश्चित् संसारी मुक्त इति व्यवस्था नोपपद्येत । वेदान्तिमते सर्वस्य ब्रह्मरूपत्वादिति भावः।
ननु-"तत्त्वमसि'इत्यादिवाक्यानामखण्डार्थपरतया जीवब्रह्मणोरभेद एवेत्यत श्राह--"योऽपि"--इति ।
___"तत्त्वमसि' इति महावाक्यम्छान्दोग्योपनिषदि उद्दालकश्वेतकेतुप्रसङ्गे नवकृत्त्वः समानातम् । तस्य त्रीणि पदानि, “तत्-त्वम्-असि” इति । अत्र तत्पदवाच्यः परोक्षत्वादिधर्मविशिष्ट ईश्वरोऽन्तर्यामी । त्वम्पदवाच्यः अपरोक्षत्वादिधर्मविशिष्टो जीवः पुण्यापुण्यकर्ता नियाम्यः । “तत्-स्वम्” इति पदद्वयन्तु समानविभक्तिकमभेदान्वययोग्यम् । परन्तु पदद्वयवाच्ययोर्विशिष्टयोरैक्यं नोपपद्यते, अर्थात् सर्वज्ञत्वादिविशिष्टस्य तत्पदवाच्यस्येश्वरस्य अल्पज्ञत्वादिविशिष्टेन जीवेन सहैक्यायोगाद् वेदवाक्यस्य च प्रमाणत्वात् सत्यार्थद्योतकत्वात् तयोरैक्यसिद्धये चिन्मात्रवपुषि ब्रह्मणि द्वयोः पदयोर्जहदजहल्लक्षणा * । तया लक्ष्यमद्वितीयम्ब्रह्मेति युक्तं तत्त्वमस्यादिवाक्यानामभेदप्रतिपादकत्वमिति वेदान्तिनः सक्षिप्तोऽभिप्रायः।।
तत्र नैयायिक श्राह--एवंविधः सर्वोपीश्वराभेदबोधको वेदो योऽस्ति सोऽपि= स सर्वोऽपि तदभेदेन ईश्वराऽभेदेन तदीयत्वम्=तत्स्वरूपत्वम् प्रतिपादयन्-निरूपयन् स्तौति-अर्थवादरूपताम्भजते इत्यर्थः । अर्थात् तदीयत्वेन तदभेदम्प्रतिपादयति, नतु
ॐ सर्वज्ञस्वाल्पज्ञत्वादिविरुद्धधर्मत्यागेन चैतन्यांशमात्रे भागत्यागलक्षणा ।