________________
वेदान्तिमतनिरासः ।
१४६
चेत्"--इति । एवं वेदान्तिना स्वमते स्थापिते. सिद्धान्ती उत्तरयति--"न" इति । "तस्य"--इतिः। तस्य विज्ञानस्य । विषयत्वासम्भवस्य दर्शितत्वात्="जगद्विषयकत्वे" इत्यादिग्रन्थेन योगाचारमतखण्डनावसरे निरूपितत्वादित्यर्थः।
अयम्भावः-भो ! वेदान्तिन् ! भवदभिमतं नित्यविज्ञानं सविषयक निर्विषयकं वा ! अाये--तस्य को विषयः ? सर्वञ्जगदिति चेत् ? सर्वे सर्वज्ञाः स्युः । यत्किञ्चिद्वस्तुजातं तस्य विषय इति चेत् ? तदा सुषुप्तावपि रूपादिविषया भायुविनिगमकाभावात् । द्वितीयम्पक्षं दूषयति--"निर्विषयस्य ज्ञानत्व"--इति । "*विषयनिरूप्यं हि ज्ञानम्” इति नियमात्, नहि निर्विषयं किमपि ज्ञानम् । एतदेवोपपादयति--"सविषयत्वस्याप्यननुभवात्"--इति । “घटस्य ज्ञानमिदम्" इत्यनुभवात् ज्ञानस्य घटादिविषयकत्वमङ्गीकृतम् “घटस्यात्मा" इत्यनुभवाऽभावात् श्रात्मनो न सविषयकत्वमित्यर्थः । अस्मद्गुरुचरणास्तु-ग्रन्थस्वारस्यात् “सविषयत्वस्याप्यनुभवात्” इति पाठः समीचीनो भाति, तदाऽयमर्थः सम्पद्यते--सर्व ज्ञानम्प्रत्यात्मं सविषयकमनुभूयत इत्येवमाहुः । । "अत"--इति । उक्तदोषेण सविषयकत्वासम्भवाद्धेतोर्यतो न तर्कसहो वेदान्तिसमयः । अतो ज्ञानादिभिन्नः ज्ञानसुखेच्छादिगुणवान् यः स नित्य अात्मेति सिद्धम् अवश्यमङ्गीकरणीयमिति भावः।। _ (मुक्ता०) सत्यं ज्ञानमिति हि ब्रह्मपरञ्जीवेषु नोपयुज्यते । शानाज्ञानसुखित्वादिभिर्जीवानाम्भेदसिद्धौ सुतरामीश्वरभेदः। अन्यथा बन्धमोक्षव्यवस्थानुपपत्तिः । योऽपीश्वराभेदबोधको वेदः सोऽपि तदभेदेन तदीयत्वम्प्रतिपादयन्स्तौति । अभेदभावनयैव च यतितव्यमिति वदति। अत एव "सर्व एवात्मनि समर्पिताः” इति धूयते । मोक्षदशायामज्ञाननिवृत्तावभेदो जायत इत्यपि न, भेदस्य नित्यत्वेन नाशाऽयोगात । भेदनाशेऽपि व्यक्तिद्वयं स्थास्यत्येव । नच द्वित्वमपि नश्यतामिति वाच्यम, तव निर्धर्मके ब्रह्मणि सत्यत्वाभावेऽपि सत्यस्वरूपं तदितिवद् द्वित्वाभावेऽपि व्यक्तिद्वयात्मको ताविति सुवचत्वात् ।
(प्रभा०) यदपि "सत्यम्”--इत्यादिश्रुतिरद्वैतब्रह्मात्मपते प्रमाणमुपन्यस्ता साप्यन्यार्थपरेत्याशयवानाह--"सत्यं ज्ञानम्"--इति । इदं बाक्यम्ब्रह्मस्वरूपम्प्रतिपादयति नतु जीवस्वरूपनिर्णयपरमित्यर्थः ।
* ज्ञानं विषयम्प्रकाशयति घटादिविषयश्च ज्ञानप्रकाश्यः । विषयो ज्ञानं निरूपयति इति विषयो ज्ञाननिरूपकः ज्ञानन्तु विषयनिरूपप्यम् इत्थं ज्ञानविषययो प्रकाश्यप्रकाशकभावः निरूप्यनिरूपकभावश्च सम्बन्धो शेयः ।
+सविषयकत्वस्याऽनुभवादिति पाठो बहुग्रन्थसम्मतः प्राक्तनटीकाकारानुमतश्चेत्याभाति ।