________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे उभयं सत्यमिति सौत्रान्तिकान् प्रति भगवान् बुद्धो तत्तद्विनेयबुद्धिमनुसरन् विरुद्धमचीकथत् । “सेयं विरुद्धा भगवता भाषा" इति वर्णयन्तोऽपरे "वैभाषिका” इति नाम्ना ख्यातिङ्गताः । सर्वश्वायम्बुद्धस्य भगवत उपदेशो विनेयबुद्धिभेदाद्भिन्नोऽपि भितुपादप्रसारणन्यायेन सर्वशून्यतापर्यवसायीति सङक्षेपः ।।
एतेषां विशिष्टा प्रक्रिया ग्रन्थगौरवभयान्नेह प्रदर्शिता । अधिकजिज्ञासवस्तु * अपाहप्रकरणतत्त्वसङ्ग्रहादिबौद्धग्रन्थान् भामतीम् व्याससूत्रोपरिशाङ्करभाष्यटीकाचाऽवलोकयन्तु ।
___ इति क्षणिकविज्ञानवादियोगाचारमतखण्डनम् ।
(मुक्का०) अस्तु तर्हि क्षणिकविज्ञाने गौरवान्नित्यविज्ञानमेवात्मा "अविनाशी वाऽरेऽयमात्मा" (बृहदा०५ ब्रा० । १४ कं०)। “सत्यं ज्ञानमनन्तम्ब्रह्म" ( तेत्ति० प्रा०व० । अनु०१) इत्यादिश्रुतेरिति चेन्न, तस्य विषयासम्भवस्य दर्शितत्वात् , निर्विषयस्य ज्ञानत्वे मानाभावात्, सविषयत्वस्याप्यननुभवात् । अतो ज्ञानादिभिन्नो नित्य आत्मेति सिद्धम् ।
(प्रभा०) योगाचारे परास्ते नित्यविज्ञानवादी वेदान्ती शङ्कते--"अस्त तर्हि"--इति । "गौरवात',--इति । पूर्वप्रदर्शितरीत्या गौरवपराहतं योगाचारमतं न सम्यगिति स्वीकुर्मः । किन्तु नित्यम्=त्रैकालाबाध्यमेकरसं विज्ञानम्-स्वप्रकाशचैतन्यमात्मा प्रस्तु-सच्चिदानन्दस्वरूपम्ब्रह्मैवात्मा नान्य इत्यर्थः । अत्र बृहदारण्यकश्रुतिम्प्रमाणयति-"अविनाशी"--इति । अस्मिन्नेवार्थे तैत्तिरीयश्रुतिं संवादयति-- "सत्यं ज्ञानम्"-- इति । | सत्यम्-त्रैकालाबाध्यम् , ज्ञानम्-चित्स्वभावः, अनन्तम्= त्रिविधपरिच्छेदरहितम्, ब्रह्मात्मा । "बृहत्वाबृंहणत्वाञ्च प्रात्मा ब्रह्मेति गीयत" इत्युक्तेः । सत्यादिकम्ब्रह्मण: स्वरूपलक्षणमित्यर्थः । यत्र निरस्तसमस्तपुन्दूषणा श्रुतिरेवात्मानं नित्यविज्ञानस्वरूपमाह तत्र किमन्यदपेक्षितव्यमिति भावः । “इति
* अयं ग्रन्थः "एशियाटिक सोसायटी'मुद्रितः ।
+ अत्रेदम्बोध्यम्-"सत्यं ज्ञानमनन्तम्ब्रह्म' इति श्रौतं वाक्यम्ब्रह्मणो लक्षणार्थम्प्रवृत्तम् । ब्रह्मेति लक्ष्यपदम् , सत्यादीनि त्रीणि लक्षणपदानि । निर्विशेषस्यैव ब्रह्मणोऽत्र सत्यादयो विशेषाः, एतैर्हि ब्रह्म यदा विशेष्यते तदा सत्यादिविरुद्धेभ्योऽसत्यजाड्यपरिच्छिन्नेभ्यो व्यावृत्तम्ब्रह्म सिद्धयति । यथा-"नीलमुत्पलम् , रक्तमुत्पलम्' इत्यादिप्रयोगे व्यक्त्यन्तरेभ्यो व्यावृत्तमुत्पलमवगम्यते, तथा यदन्येभ्योऽसत्यादिभ्यो व्यावृत्तमवधीयते तद्ब्रह्मैव इत्येवं व्यावृत्तत्वे सति सच्चिदेकंतांनम्परिपूर्ण तदिति ब्रह्मस्वरूपं ज्ञातम्भवति । व्यावृत्तिश्चेन्न ज्ञायेत तदाऽनृतादिभ्यो व्यावृत्त्यसिद्धेर्न ब्रह्म ज्ञातं स्यात् , व्यावृत्तेश्च ब्रह्मस्वरूपाऽनतिरेकात् न निर्विशेषाद्वैतवादक्षतिरित्यौपनिषदानां निगूढोऽभिप्रायः । विस्तरस्त्वन्यत्र ।