________________
बौद्धानाम्प्रस्थानचतुष्टयी।
परिवाटकामुकशुनामेकस्यां प्रमदातनौ ।
कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पना ॥ इति । तस्मात् १– "सर्वं क्षणिक क्षणिकम्" । २-"दुःखं दुःखम्" । ३"स्वलक्षणं स्वलक्षणम्" । ४-“शून्यं शून्यम्" इति भावनाचतुष्टयबलात्सकलवासनानिवृत्तौ परं निर्वाणभूतं “शून्यतत्त्वम्" प्राप्यते । तस्माद्वयं कृतार्थाः नास्माकमुपदेश्यं नाम किञ्चिदस्ति ।
___ योगाचारास्तु-स्वयम्प्रकाशं विज्ञानमवश्यं स्वीकर्तव्यम् , अन्यथा जगदान्ध्यं प्रसज्येत । ग्राह्यग्राहकसंवित्तीनां वस्तुतोऽभेदेऽपि पृथगवभास एकस्मिश्चन्द्रमसि द्वित्वावभास इव भ्रमः । ततश्च भावनाचतुष्टयबलाद्विविधविषय कारविवर्जितशुद्धक्षणिकविज्ञानोदयस्वरूपमोक्षप्राप्ती कृतार्थता भवति" इत्याहुः ।
सौत्रान्तिकास्तु इत्थमाचक्षते-बाह्य घटपटाद्यर्थजातमस्त्येव, परं न प्रत्यक्षम्, किन्त्वनुमेयमेव । यथा भाषया देशः, यथा वा सम्भ्रमेण स्नेहः । एवं ज्ञानाकारेण ज्ञेयमनुमेयम् । अर्थात् ज्ञानाकारानुमेयक्षणिकबाह्यार्थ एवात्मेति ।
वैभाषिकास्तु-द्विविधोऽर्थो ग्राह्याध्यवसायभेदात् । तत्र ग्राह्यग्राहक निर्विकल्परूपं ग्रहणम् ज्ञानं कल्पनापोढत्वादभ्रान्तम्प्रत्यक्षम्प्रमाणम् । अध्यवसायस्तुसविकल्परूपः अनुमानमप्रमाणं कल्पनारूपत्वात् । सौत्रान्तिकवैभाषिकयोरियानेव भेदो यदाद्यो बाह्यानुमेयपदार्थवादी, परो बाह्यप्रत्यक्षार्थवादी ।
कथमेषां सज्ञा जातेति चेच्छृणु-शिष्यैस्तावत् योगश्वाचारश्च इति द्वयमपि करणीयम् । तत्राऽप्राप्तप्राप्तये पर्यनुयोगो योगः । गुरूक्तस्याङ्गीकरणमाचारः । गुरूक्तस्याङ्गीकरणादुत्तमाः पर्यनुयोगस्य प्रश्नस्य अकरणादधमाश्च इत्येकेषां' 'माध्यमिका" इति सज्ञा सञ्जाता ।
गुरूक्तभावनाचतुष्टयम्बाह्यार्थशून्यत्वञ्चाङ्गीकृत्य आन्तरस्य शून्यत्वमङ्गीकृतम् , तत्कथमिति पर्यनुयोगकरणादपरेषाम् “योगाचार” इति प्रथाऽभूत् ।
सूत्रस्य अन्तम्-रहस्यम्पृच्छताम् “भवन्तः सूत्रस्यान्तम्पृष्टवन्तः सौत्रान्तिका भवन्तु” इति भगवता बुद्धेनाऽभिधानात्परे "सौत्रान्तिका" इति प्रसिद्धा आसन् ।
बाह्येषु गन्धादिषु प्रान्तरेषु च रूपादिषु स्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्व शून्यमिति माध्यमिकान् प्रति, विज्ञानमेवैकं सदिति योगाचारान् * “यत् सत् तत् क्षणिकम्' इत्यत्र सर्वेषाम्बौद्धानामैकमत्यम् । तथाचाहुः
यत्सत्तक्षणिकं यथा जलधरः सन्तश्च भावा अमी सत्ता शक्तिरिहार्थकर्मणि मित: सिद्धेषु सिद्धा न सा ॥ नाप्येकैव विधाऽन्यथा परकृतेनापि क्रियादिर्भवेत् द्वेधाऽपि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥ इति ।