________________
१४६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे धिकरणस्यात्मनः स्वीकारः । "*कल्पनागौरवात्" इति । “स एवायम्" इत्यापामरप्रत्यभिज्ञानात् क्षणिकानन्तशक्तितत्प्रागभावप्रध्वंसकल्पने गौरवम् ।
___"एतेन" इति । पूर्वोक्ततकेंणेत्यर्थः । क्षणिकशरीरेवेव चैतन्यम् चेतनता क्षणिकशरीराणां धर्म इत्यर्थः । प्रत्युक्तम् खण्डितम्बोध्यमिति शेषः । यथा क्षणिकविज्ञानवादो वासनासक्रमानुपपत्तिरूपतर्कपराहतः तथा क्षणिकशरीरचेतनतावादोऽपि परेषां नास्तिकानां व्युदस्त इति भावः ।।
सम्प्रति बौद्धस्य 'कुर्वद्रूपत्ववादं" खण्डयितुमाह-"बीजादावपि"इति । अत्र बौद्धस्य वासनासक्रमवादसाधनायाऽयं तर्क:-क्षेत्रे उप्तस्यैव बीजस्योत्पत्तिर्भवति, नतु कुसूले स्थितस्य । अतोऽङ्कुरत्वावच्छिन्नम् अकुररूपं कार्यम्प्रति ""कुर्वद्रूपम्" कारणमवश्यं वाच्यम् । एवमेव क्षणिकशरीरेष्वपि उत्तरोत्तरशरीरनिष्टवासनोत्पादकत्वरूपं कुर्वदूपत्वञ्जातिविशेषः स्वीकर्तव्यो येन नैव वासनासङ्क्रमानुपपत्तिरूपो दोषः । किन्तु दृष्टान्ते बीजे कुर्वपत्वस्य यथा समा व्याप्तिः, तथैव तस्य विज्ञानत्वेन सहापि समा व्याप्तिः, अर्थात् “यत्र यत्र कार्यजनकत्वं तत्र तत्र कुर्वद्रूपत्वम् , यत्र यत्र कुर्वदूपत्वं तत्र तत्र कार्यजनकत्वमिति' तस्या आकारः ।
एवन्तत्खण्डनपर: सिद्धान्तग्रन्थोऽयम्- "बीजादावपि"- इति । अस्याऽयमर्थः-बीजादावपि अङ्कुरजननहेतुभूत: कुर्वदूपत्वाङ्गीकारो निष्फल: । कुत इत्याह"सहकारी"-इति । धरणिसलिलसंयोगादिरूपो य: सहकारी तस्य समवधानम्= सान्निध्यविशेषः, तेनाङ्कुरोत्पत्ति: । कुसूलादौ तु तदसमवधानात्-तादृशसहकारिसंयोगविशेषाभावादेव नाङ्कुरोत्पत्तिः, अतो हेतोः कुर्वदूपत्वकल्पनं न युक्तम् ।
__ अयमत्राशयो नैयायिकस्य वेदितव्यः-यत्फलजननाय योग्ये धान्यादिबीजे सहकारिभिर्धरणिसलिलसंयोगादिभिः अतिशयः कश्चन उपकार आधीयते, इत्येवाऽवश्यं स्वीकर्त्तव्यम् । एतेनैवाङ्कुरादिनियमोपपत्ती अलं कुर्वद्रूपत्वकल्पनेन । ततो बौद्धमते वासनासक्रमानुपपत्तिरूपो दोषस्तदवस्थ एवेत्ययुक्तो विज्ञानवादिसमयः ।
इदमधिकमत्र वेदितव्यम्-एक एव बुद्धो भगवानुपदेष्टा, परन्तु तस्य शिष्याश्चतुर्विधा भावनाभेदागिन्नभिन्नमतय आसन् । तेषु मुख्यो माध्यमिकः सर्वशून्यतावादी, यस्येदम्मतं सक्षिप्तम्-यत्सत् तद्विनश्यति । अतः सर्व शून्यं शून्यमिति भावनीयम् । दृष्टार्थो व्यवहारः स्वप्नव्यवहारवत् संवृत्या भासते । अत एवोक्तम्
__*तथाच-शक्तेरपि भावत्वेन क्षणिकतया अनन्तशक्तितत्प्रागभावादिकल्पनागौरवस्याऽ. त्रापि तुल्यत्वेन लाघवाभावादिति भावः इति प्राचीना प्रभा।
+ कुर्वत्=फलोन्मुखं रूपं यस्य, तस्य भाव: "कुर्वद्रूपम्" इत्यर्थः । अङ्कुरोपधायकक्षणिकबीजव्यक्तिमात्रवृत्तिबीजत्वव्याप्यो जातिविशेषः ।