________________
क्षणभङ्गभङ्गः।
पुत्रयोः" इति । वासनासक्रमप्रसङ्गात् संस्कारसञ्चारापत्तेः । अर्थात् यदि वासनासङ्क्रमः स्यात्, तर्हि मात्राऽनुभूतस्य गर्भस्थेन पुत्रेण स्मरणं कृतम्भवेत्, नत्वेवं तस्मादयुक्तमेतत् ।
ननु-उपादानेनाऽनुभूतमुपादेयेन स्मर्यते, मातृपुत्रयोर्नोपादानोपादेयभाव इति न मातृदृष्टम्पुत्रः स्मर्तुमर्हतीत्याशयवतो बौद्धस्य पक्षमुत्थाप्य निराकरणाय श्राह सिद्धान्ती-"नच"- इति । “सङ्क्रमासम्भवात्" इति । सञ्चारासम्भवादित्यर्थः । धर्मत्वाद्वासना धर्मिणं विहाय परत्र गन्तुं न समर्थेति भावः। मृगमदसङ्कमेऽपि कस्तूरिकायाः परमाणव एवादृष्टवशादुत्तरत्र परपुटे संयुक्तिभाजो भवन्तीति सर्वथा बौद्धोऽज्ञातपदार्थस्वभावः ।
पुनः शङ्कते-"उत्तरस्मिन्” इति । अयमर्थः-सङ्क्रमः सञ्चारः पूर्वविज्ञानवासनाया उत्तरस्मिन् विज्ञाने उत्पन्ने तेन सहैवोत्पत्तिर्वासनानाम्, सैव सक्रम इति ब्रूमः। ___एतद् दूषयति-"न"-इति । “तदुत्पादकाभावात्" इति । नहि उत्पादकमन्तरा कस्याप्युत्पत्ति:, पूर्वविज्ञानन्तु नष्टमेव, तत्कथं स्ववासनामुत्तरत्रोत्पादयेत् , तदुत्पादनक्षणे तस्याभावात् । तत्सत्तास्वीकारे तु अधिकक्षणावस्थायित्वाद् विज्ञानं क्षणिकमिति तव मतं दत्तजलाञ्जलितामापयेत, तस्माद्वासनासक्रमनिरूपणं दुःशकम्बौद्धस्येति नैयायिकस्याभिप्राय: ।
दूषणान्तरमप्याह-"चितामेव” इति । अयमर्थः-मा नाम जीजनत् पूर्वविज्ञानमुत्तरविज्ञाने वासनाम् , उत्तरोत्तरमुत्पद्यमानं विज्ञानं स्वयमेव वासनामप्युत्पादयिष्यतीति चेत् ? तदा संस्कारानन्त्यप्रसङ्गः संस्कारोत्पादकानां विज्ञानानामनन्तत्वात् । चिताम्-विज्ञानानाम् ।
(मुक्का०) क्षणिकविज्ञानेऽतिशयविशेषः कल्प्यत इति चेन्न, मानाभावात्कल्पनागौरवाञ्च । एतेन क्षणिकशरीरेष्वेव चैतन्यमपि प्रत्युक्तम् , गौरवादतिशये मानाभावाच । बीजादावपि सहकारिसमवधानाऽसमवधानाभ्यामेवोपपत्तेः कूर्वद्रूपत्वाकल्पनाच्च ।
(प्रभा०) पुनः शङ्कते-"क्षणिकविज्ञान" इति । अतिशयविशेषः= शक्तिविशेषः । अर्थात् उत्तरविज्ञाने अस्ति किमप्यलौकिकं सामर्थ्य स्मृतिरूपकार्यगम्यम् , येन अनुभवजन्यसंस्कारोत्पत्त्या स्मृते नुपपत्ति: । सिद्धान्ती उत्तरयति"न"-इति । "मानाभावात्" इति । कार्यानुकूलशक्तौ प्रमाणाभावादित्यर्थः । अर्थात् यद्यपि स्मृतिकार्यान्यथानुपपत्तिरेव मानम् , तथापि अनन्तविज्ञानेष्वनन्ततादृशशक्तिकल्पने महगौरवम्, अतो वरं तस्माद्विज्ञानाद्भिन्नस्य नित्यस्य ज्ञाना