________________
१४४ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे पादत्वात् । नच वासनासक्रमः सम्भवति, मातृपुत्रयोरपि वासनासङ्कमप्रसङ्गात् । नचोपादानोपादेयभावो नियामक इति वाच्यम् , वासनायाः सङ्क्रमासम्भवात् । उत्तरस्मिन्नुत्पत्तिरेव सङ्क्रम इति चेन्न, तदुत्पादकाभावात् । चितामेवोत्पादकत्वे तदानन्त्यसङ्गः।
__ (प्रभा०) पुन: * शङ्कते स एव--"अपोहरूप"--इति । गोशब्दश्रवणात सर्वासां गोव्यक्तीनामुपस्थितेः अतस्मात्-गोभिन्नादश्वादितो व्यावृत्तिदर्शनाच्च "अतघ्यावृत्तिरूप:- अगोव्यवच्छेदरूपः 'अपोह" एव शब्दार्थः वाच्यार्थः, सच विज्ञानधर्म एवेति बौद्धमतम् । एवञ्च प्रकृतेऽपोहरूपो नाम अनीलव्यावृत्तिरूपो (नीलत्वादिरेव) विज्ञानस्य-क्षणिकविज्ञानस्य धर्मः तेन नीलाकारोऽनीलव्यावृत्तिरूप: पीताकारश्च अपीतव्यावृत्तिरूप इति नोभयोराकारयोरभेदबुद्धिः, अर्थात् तौ द्वावाकारावभिन्नावेव भेदप्रतीतिस्तयोर्नीलत्वपीतत्वयोः, सापि न पारमार्थिकी, किन्तु सांवृतिकीति बौद्धस्याशयः। ... तदेतत्सिद्धान्ती निराकरोति-"न"- इति । “नीलत्वादीनाम्"- इति । एकस्मिन्-विज्ञानरूपे धर्मिणि विरुद्धानाम् नीलत्वादीनां धर्माणामसमावेशातू= सामानाधिकरण्याभावात् । अर्थात् नीलत्वं नीलत्वनिष्ठम् , पीतत्वम्पीतनिष्ठमिति द्वावपि विरुद्धौ परस्परानात्मानौ धौं कथमेकस्मिन्नधिकरणे (विज्ञानात्मके ) स्थातुं पारयेताम् । एवञ्च तयो व सामानाधिकरण्यम् । इतरथा विरुद्धानामपि नीलत्वादीनां सामानाधिकरण्ये । विरोधावधारणस्यैव-विरोधनिश्चयस्यैव दुरुप.पादत्वात् निश्चेतुमशक्यत्वात् अर्थात् विरोधनिश्चयः कुत्रापि न स्यात् । सर्वस्मात् संसाराद्विरोधकथा सुदूरमुत्सारिता भवेदिति भावः ।
ननु-न वयं समूहालम्बने नीलाकारादिकम्प्रतीमः, किन्तु चित्राकारमेकमेवेति नोक्तदोष इतिवादिनो बौद्धस्य मुख्यं वासनासक्रमपक्षं दूषयति-"नवा"इति । अस्यायमर्थः-यत्पूर्वमभिहितं मृगमददृष्टान्तेन पूर्वपूर्वविज्ञानसंस्कारा उत्तरोत्तरमुत्पन्ने विज्ञाने सङ्क्रमिष्यन्ते, तेन मम मतेऽनित्ये क्षणिकेऽपि विज्ञानात्मनि न स्मरणानुपपत्तिरूपो दोष इति तदप्ययुक्तम् । अत्रार्थ सिद्धान्ती हेतुमाह-"मात
8 नीलाकारः पीताकारादभिन्न एवास्माकं सिद्धान्ते, भेदप्रत्ययस्तु अपारमार्थिकः, 'अर्थात् अतद्वथावृत्तिरूपत्वेनैक्येऽपि विज्ञानभिन्नयोनीलत्वपीतत्वयोर्भेदात् भेदप्रतीतिरित्याशयवान पूर्वपक्षयतीत्यर्थः ।
तत्त्वसङ्ग्रहे तट्टीकायाम्पञ्जिकायाञ्च अपोहवादस्वरूपस्य बहूपपादनं दृश्यते
"स्वलक्षणेऽपि तद्धेतावन्यविश्लेषभावतः ॥१००६॥ प्रसज्यप्रतिषेधश्च गौरगौन भवत्ययम् । अतिविस्पष्ट एवाऽयमन्यापोहोऽवगम्यते" ॥१०१०॥ इत्यादि। ..