________________
योगाचारमतनिरासः ।
१४३
आक्षिप्य समाधत्ते---- "नच" इत्यारभ्य "अशक्यत्वात्" इत्यन्तेन । "इष्टापत्तिः"-- इति । घटपटादिविषयसत्तानङ्गीकारो मम विज्ञानमात्रैकवादिनोऽभीष्ट एव, अर्थात् वस्तुतो घटाद्या: पदार्था मम मते न परमार्थसन्तः किन्तु प्रतिभासमात्रशरीरास्ते विज्ञानस्वरूपा एवेति ममेष्टमेव त्वया गदितमिति बौद्धस्य हृदयम् । “विज्ञानव्यतिरिक्रवस्तुनोऽभावात्" इति स्वेष्टापत्तौ हेतुरुनः ।
घटाद्याः पदार्था वाह्यविषयतास्वरूपेण सर्वानुभवगोचराः कथमपलप्येरन् । अर्थात् यद्येते विज्ञानस्वरूपात्पृथङ् न स्युः तर्हि "अयं घटः अयम्पटः" इत्यादिप्रत्ययेन न भाव्यम् । किन्तु “इदं विज्ञानम् , इदं विज्ञानम्" इत्येव प्रत्ययो भवेद् याच पण्डितेभ्यः पाच पांसुलपादेभ्यो हालिकेभ्यः । नत्वेवं दृश्यते, तस्माद्विज्ञानाभिन्ना घटाद्या विषया: सन्ति, विज्ञानविषयाश्चते इति नैयायिकस्य तर्कः । अनुभूयमानस्य-विज्ञानभिन्नत्वेन विषयीक्रियमाणस्य अपलपितुम् बाधितुमित्यक्षरार्थः ।
पुनराशङ्कते बौद्ध:--'श्राकारविशेष'- इति । अयम्-घटादिपदार्थः । विज्ञानस्य-क्षणिकबुद्धेः । श्राकारविशेषः-स्वरूपविशेष एवास्ति । यथा पटस्तन्तूनां स्वरूपविशेषो नतु तन्तुसत्तातिरिक्तसत्तावानेवमित्यर्थः ।
____ सिद्धान्ती विकल्प्य दूषयति-"किमयम्" इति । अयं घटाद्याकारविशेषो विज्ञानस्वरूपाद्भिन्नो वाऽभिन्नो (विज्ञानस्वरूपम् ) वा ?। श्राद्ये दूषणमाह--"तर्हि समायातम्" इति । श्राद्यपक्षे विज्ञानात्पृथग्विषयसत्तासिद्धौ ‘सर्व विज्ञानम्" इति बौद्धस्य प्रतिज्ञाहानि: । द्वितीये त्वाह--"समूहालम्बन"--इति । * नानाधर्म्यवगाहि एकं ज्ञानं समूहालम्बनम् । यथा “इमे नीलपीते वस्त्रे” इत्याकारक नीलपीतधर्मविशिष्टनीलपीतात्मकानेकधर्मिविषयकमेकं ज्ञानम् ।
अयम्भावः--तव मते विज्ञानाद्विषयाणां न भेदः, एवं यद्विज्ञानं नीलविषयकं तदेव पीतं विषयीकरोति, नीलपीतयोश्च स्वयं सत्ता नास्ति, एवन्नीलाकारोपिनीलस्वरूपमपि पीताकार:-पीतस्वरूपम्भायात् तदभिन्नाऽभिन्नस्य तदभिन्नत्वनियमात्, प्रकृते नीलाकारपीताकारी समूहालम्बनात्मकविज्ञानादभिन्नौ । तथाच नीलाकाराभेदवतो विज्ञानादभिन्न: पीताकारोऽपि नीलाकारादभिन्न एव प्रतीयेत, तेन नीलेऽपि पीतप्रत्ययो यथार्थ: स्यात् । अर्थात् “इमे नीलपीते" इत्यस्य स्थाने “इमे नीले" इत्येव “इमे पीते” इत्येव वा प्रत्ययो भवेत् । अत्र हेतुमाह--"स्वरूपत"--इति । विज्ञानस्वरूपस्येत्यर्थः । अविशेषात्-एकत्वात् ।
(मुक्का०) अपोहरूपो नीलत्वादिर्विज्ञानधर्म इति चेन्न, नीलत्वादीनां विरुद्धानामेकस्मिन्नसमावेशात् । इतरथा विरोधावधारणस्यैव दुरुप
* नानाविशेष्यतानिरूपितनानाप्रकारताशालिज्ञानमित्यत्र तात्पर्यम् । संशये तु नानाप्रकारतानिरूपिताया एकविशेष्यतायाः सत्त्वान्न समूहालम्बनात्मकज्ञानलक्षणतिप्रसक्तिरिति ध्येयम् ।